Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चमी षट्त्रिशिका
अथ पञ्चमीं षट्त्रिशिकामाह -
मूलम् - सगभयरहिओ सगपिंडपाणएसणसुहेहिं संजुत्तो । अट्ठमयठाणरहिओ, छत्तीसगुणो गुरू जयउ ॥६॥
छाया - सप्तभयरहितः सप्तपिण्डपानैषणासुखैः संयुक्तः । अष्टमदस्थानरहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥६॥
प्रेमीया वृत्तिः - सप्तभयरहितः - सप्तविधैर्भयैरपेतः, सप्तपिण्डपानैषणासुखैः - सप्तविधाभिः पिण्डैषणाभिः सप्तविधाभिः पानैषणाभिः सप्तविधैश्च सुखैः, संयुक्तः समन्वितः अष्टमदस्थानरहितः अष्टप्रकारैर्मदस्थानै वियुक्तः, षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः ।
-
-
विस्तरार्थस्त्वयम् - भयमोहनीयकम्र्म्मोदयेन जायमानो जीवस्य भावविशेषो भयम्। तत् सप्तविधम् । तद्यथा १ इहलोकभयं, २ परलोकभयं, ३ आदानभयं, ४ अकस्माद्भयं, ५ आजीविकाभयं ६ मरणभयं ७ अश्लोकभयञ्च । उक्तञ्च प्रवचनसारोद्धारे तद्वृत्तौ च
'१ इह २ परलोया ३ ऽऽयाणा ४ मकम्ह ५ आजीव ६ मरण ७ मसिलोए । सत्त भट्ठाणाई इमाइं सिद्धंतभणियाई ॥ १३२०॥'
-
वृत्तिः भयं भयमोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानानि-आश्रया भयस्थानानि, तत्र १ मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो जन्तोर्जातौ यो लोकस्ततो भयमिति व्युत्पत्तेः, २ तथा परस्मात् – विजातीयात्तिर्यगादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, ३ तथा आदीयते इत्यादानं तदर्थं मम सकाशादयमिदमादास्यतीति यच्चौरादिभ्यो भयं तदादानभयं,

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430