Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३६८
सप्तविधाः पिण्डैषणाः सप्तविधाश्च पानैषणाः
तासु च संसृष्टा हस्तमात्रकाभ्यां इमा प्रथमा भिक्षा १ । तद्विपरीता द्वितीया भिक्षा गृह्णतो भवेत् २ ॥ ७४०॥
निजयोगेन भोजनजातं उद्धृतं उद्धृता भिक्षा ३ । सा अल्पलेपिका या निर्लेपा वल्लचणकादिः ४ ॥७४१ ॥ भोजनकाले निहिता शरावप्रमुखेषु भवति अवगृहीता ५ । प्रगृहीता यद् दातुं भोक्तुं च करेण अशनादि ६ ॥७४२॥ भोजनजातं यत् त्यागार्हं न ईहन्ते द्विपदादयो । अर्धत्यक्तं वा सा उज्झितधर्मा भवेद् भिक्षा ७ ॥७४३||
पानैषणापि एवं नवरं चतुर्थ्यां भवति नानात्वम् । सौवीरायामादि यद् अलेपकृदिति समयोक्तिः ॥ ७४४)
वृत्तिः - 'संसट्टे 'त्यादिगाथाषट्कं, पिण्डः - सिद्धान्तभाषया भक्तमुच्यते तस्य एषणा ग्रहणप्रकारः पिण्डैषणा, सा च सप्तविधा, तद्यथा असंसृष्टा १ संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मा च सप्तमिका, अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमनिर्देशो द्रष्टव्यः, यत्पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्गाथाभङ्गभयादिति, इह च द्वये साधवो गच्छान्तर्गता गच्छनिर्गताश्च, तत्र गच्छान्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रहः ॥७३९॥ अथैताः स्वयमेव व्याचष्टे - 'तंमी 'त्यादिगाथाचतुष्टयम्, 'तंमित्ति प्राकृतत्वात्तासु भिक्षासु मध्ये संसृष्टा हस्तमात्रकाभ्यां भवति, कोऽर्थः ? - संसृष्टेन - तक्रतीमनादिना खरण्टितेन हस्तेन संसृष्टेनैव च मात्रकेण - करोटिकादिना गृह्णतः साधोः संसृष्टा नाम भिक्षा भवति, इयं च द्वितीयाऽपि मूलगाथोक्तक्रमापेक्षया प्रथमा, अत्र च संसृष्टासंसृष्टसावशेषनिरवशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति, तथा तद्विपरीता - संसृष्टाख्यभिक्षाविपरीता द्वितीया असंसृष्टा नाम भिक्षा भवति, असंसृष्टेन हस्तेन असंसृष्टेन च मात्रकेण भिक्षां गृह्णतः साधोरसंसृष्टेत्यर्थः, अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषः तथापि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता । तथा निजयोगेन - आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र
-

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430