Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 396
________________ षष्ठी षट्विशिका अधुना षष्ठी षट्त्रिंशिकामाहमूलम् - अट्ठविहनाणदंसण-चरित्तायारवाइगुणकलिओ । चउविहबुद्धिसमिद्धो, छत्तीसगुणो गुरू जयउ ॥७॥ छाया - अष्टविधज्ञानदर्शन-चारित्राचारवादिगुणकलितः। __ चतुर्विधबुद्धिसमृद्धः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥७॥ प्रेमीया वृत्तिः - अष्टविधज्ञानदर्शनचारित्राचारवादिगुणकलितः - प्रत्येक अष्टविधैर्ज्ञानाचारैर्दर्शनाचारैश्चारित्राचारैर्वादिगुणैश्च युक्तः, चतुर्विधबुद्धिसमृद्धः - चतुर्विधाभिर्बुद्धिभिः समृद्धः, षट्त्रिंशद्गुणो गुरुर्जयत्विति गाथार्थः । प्रपञ्चितार्थस्त्वयम् - ज्ञानं-ज्ञानावरणीयकर्मक्षयोपशमजो जीवस्य भावः, तस्याऽऽचारा इति ज्ञानाचाराः । तेऽष्टविधाः । तद्यथा - १ कालः, २ विनयः, ३ बहुमानः, ४ उपधानं, ५ अनिह्नवः, ६ व्यञ्जनं, ७ अर्थः ८ तदुभयश्च । यदाह दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तौ च - 'साम्प्रतं ज्ञानाचारमाह - काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥१८४॥ (छाया- कालः विनयः बहुमान: उपधानं तथा च अनिह्नवनम् । व्यञ्जनार्थतदुभयानि अष्टविधो ज्ञानाचारः ॥१८४॥) वृत्तिः - 'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430