SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ षष्ठी षट्विशिका अधुना षष्ठी षट्त्रिंशिकामाहमूलम् - अट्ठविहनाणदंसण-चरित्तायारवाइगुणकलिओ । चउविहबुद्धिसमिद्धो, छत्तीसगुणो गुरू जयउ ॥७॥ छाया - अष्टविधज्ञानदर्शन-चारित्राचारवादिगुणकलितः। __ चतुर्विधबुद्धिसमृद्धः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥७॥ प्रेमीया वृत्तिः - अष्टविधज्ञानदर्शनचारित्राचारवादिगुणकलितः - प्रत्येक अष्टविधैर्ज्ञानाचारैर्दर्शनाचारैश्चारित्राचारैर्वादिगुणैश्च युक्तः, चतुर्विधबुद्धिसमृद्धः - चतुर्विधाभिर्बुद्धिभिः समृद्धः, षट्त्रिंशद्गुणो गुरुर्जयत्विति गाथार्थः । प्रपञ्चितार्थस्त्वयम् - ज्ञानं-ज्ञानावरणीयकर्मक्षयोपशमजो जीवस्य भावः, तस्याऽऽचारा इति ज्ञानाचाराः । तेऽष्टविधाः । तद्यथा - १ कालः, २ विनयः, ३ बहुमानः, ४ उपधानं, ५ अनिह्नवः, ६ व्यञ्जनं, ७ अर्थः ८ तदुभयश्च । यदाह दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तौ च - 'साम्प्रतं ज्ञानाचारमाह - काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥१८४॥ (छाया- कालः विनयः बहुमान: उपधानं तथा च अनिह्नवनम् । व्यञ्जनार्थतदुभयानि अष्टविधो ज्ञानाचारः ॥१८४॥) वृत्तिः - 'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy