________________
३६८
सप्तविधाः पिण्डैषणाः सप्तविधाश्च पानैषणाः
तासु च संसृष्टा हस्तमात्रकाभ्यां इमा प्रथमा भिक्षा १ । तद्विपरीता द्वितीया भिक्षा गृह्णतो भवेत् २ ॥ ७४०॥
निजयोगेन भोजनजातं उद्धृतं उद्धृता भिक्षा ३ । सा अल्पलेपिका या निर्लेपा वल्लचणकादिः ४ ॥७४१ ॥ भोजनकाले निहिता शरावप्रमुखेषु भवति अवगृहीता ५ । प्रगृहीता यद् दातुं भोक्तुं च करेण अशनादि ६ ॥७४२॥ भोजनजातं यत् त्यागार्हं न ईहन्ते द्विपदादयो । अर्धत्यक्तं वा सा उज्झितधर्मा भवेद् भिक्षा ७ ॥७४३||
पानैषणापि एवं नवरं चतुर्थ्यां भवति नानात्वम् । सौवीरायामादि यद् अलेपकृदिति समयोक्तिः ॥ ७४४)
वृत्तिः - 'संसट्टे 'त्यादिगाथाषट्कं, पिण्डः - सिद्धान्तभाषया भक्तमुच्यते तस्य एषणा ग्रहणप्रकारः पिण्डैषणा, सा च सप्तविधा, तद्यथा असंसृष्टा १ संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मा च सप्तमिका, अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमनिर्देशो द्रष्टव्यः, यत्पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्गाथाभङ्गभयादिति, इह च द्वये साधवो गच्छान्तर्गता गच्छनिर्गताश्च, तत्र गच्छान्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रहः ॥७३९॥ अथैताः स्वयमेव व्याचष्टे - 'तंमी 'त्यादिगाथाचतुष्टयम्, 'तंमित्ति प्राकृतत्वात्तासु भिक्षासु मध्ये संसृष्टा हस्तमात्रकाभ्यां भवति, कोऽर्थः ? - संसृष्टेन - तक्रतीमनादिना खरण्टितेन हस्तेन संसृष्टेनैव च मात्रकेण - करोटिकादिना गृह्णतः साधोः संसृष्टा नाम भिक्षा भवति, इयं च द्वितीयाऽपि मूलगाथोक्तक्रमापेक्षया प्रथमा, अत्र च संसृष्टासंसृष्टसावशेषनिरवशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति, तथा तद्विपरीता - संसृष्टाख्यभिक्षाविपरीता द्वितीया असंसृष्टा नाम भिक्षा भवति, असंसृष्टेन हस्तेन असंसृष्टेन च मात्रकेण भिक्षां गृह्णतः साधोरसंसृष्टेत्यर्थः, अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषः तथापि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता । तथा निजयोगेन - आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र
-