SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सप्तविधं सुखम् ३६९ स्थाल्यादावुद्धृतं, तच्च साधोर्गृह्णत उद्धृता तृतीया भिक्षा भवति, तथा सा अल्पलेपिका नाम चतुर्थी भिक्षा या निर्लेपा वल्लचणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः, अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः, यद्वाऽल्पः - स्तोको लेपः पश्चात्कर्मादिजनितः कर्मसम्बन्धो वा यस्यां सा अल्पलेपा, उक्तं च आचाराले - 'अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए'त्ति । अत्र च - पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि तथा अल्पं पर्यायजातं, अल्पं तुषादि त्यजनीयमित्यर्थः, तथा भोजनसमये निहितं - निक्षिप्तं शरावप्रमुखेषु - शरावकांस्यपात्रादिषु भाजनेषु भोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृह्णतो यतेरवगृहीता पञ्चमी भिक्षा भवति, अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणत: पाण्यादिषूदकलेपस्तदा कल्पते अन्यथा तु निषेधः, तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धृत्य चट्टकादिना उत्क्षिप्तं परेण च न गृहीतं प्रव्रजिताय दापितं यद्वा भोक्त्रा स्वयं भोक्तुं करेण - निजहस्तेन यद् गृहीतमशनादि तद् गृह्णतो यतेः प्रगृहीता नाम षष्ठी भिक्षा भवति, तथा योजनजातममनोज्ञत्वादिना कारणेन परित्यागार्ह अन्ये च द्विपदादयो ब्राह्मणश्रमणातिथिकार्पटिकादयो न ईहन्ते - नावकाङ्क्षन्ति तद् अर्धत्यक्तं वा गृह्णतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति, आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गी भणनीया, नवरं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥७४०॥ ॥७४१॥ ॥७४२॥ ॥७४३॥ अथ पानैषणासप्तकमाह - 'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया, नवरं - केवलं चतुर्थ्यामल्पलेपायां भवति नानात्वं - भेदः, यद् - यस्मात् सौवीरायामादि - काञ्जिकावस्रावणादि आदिशब्दादुष्णोदकतण्डुलोदकादि चालेपकृदिति समयोक्तिः सिद्धान्तभणितिः, शेषं तु ईक्षुरसद्राक्षापानकाम्लिकापानकादि लेपकृत, तद्धि पीयमानं यतेः कर्मलेपं करोति ९६ ॥७४४॥' गुरुः सप्तभिः पिण्डैषणाभिः सप्तभिश्च पानैषणाभिः संयुतो भवति । सुखं सप्तविधम् । तद्यथा - १ सन्तोषः, २ इन्द्रियजयः, ३ प्रसन्नचित्तत्वं, ४ दयालुत्वं, ५ सत्यं, ६ शौचः ७ दुर्जनपरिहारश्च । उक्तञ्च प्रव्रज्याविधानकुलके - 'संतोसो १ करणजओ २, पसन्नचित्तं ३ दयालुभावो ४ य। सच्चं ५ सोयं ६ दुज्जण-परिहारो ७ इय सुहा सत्त ॥१॥' (छाया- सन्तोषः १ करणजयः २, प्रसन्नचित्तं ३ दयालुभावश्च ४ । सत्यं ५ शौचं ६ दुर्जन-परिहारः ७ इति सुखानि सप्त ॥१॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy