Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३७१
अष्टविधानि मदस्थानानि
परदुःखोत्पादकवचन-भणनविरतानां पुरुषरत्नानाम् । इहलोके परलोके, कल्याणपरम्परा परमा ॥६॥ शीलकवचः न भिन्नः, येषां तीक्ष्णैः कामबाणैः । कर्पूरतारकीर्त्या, तैः भृतं धरावलयम् ॥७॥ दुःशीललोकसंसर्ग-त्यागबद्धादराणां जीवानाम् । गुणवल्ली उल्लासं, लभते सुविवेकफलजालम् ॥८॥ एतानि तानि सप्त च, सुखानि यानि जगति प्रसिद्धानि ।
एतैः यश्च सुखितः, स एव परमार्थतः सुखितः ॥९॥) गुरुः सप्तभिः सुखैरुपेतो भवति ।
मदानामभिमानानां स्थानानि आश्रया इति मदस्थानानि । तानि अष्टविधानि । तद्यथा - १ जातिमदः, २ कुलमदः, ३ रूपमदः, ४ बलमदः, ५ श्रुतमदः, ६ तपोमदः, ७ लाभमदः, ८ ऐश्वर्यमदश्च । उक्तञ्चोपदेशमालायां तद्वृत्तौ च -
'जाइ-कुल-रूव-बल-सुय-तव-लाभिस्सरिय अट्ठमयमत्तो।
एयाई चिय बंधइ, असुहाई बहुं च संसारे ॥३३०॥ वृत्तिः - 'जाइ' गाहा, जातिाह्मणादिः, कुलमुग्रादि, रूपं शरीरसौन्दर्य, बलं शक्तिः, श्रुतमागमाधिगमः, तपोऽनशनादि, लाभोऽभीष्टवस्तुप्राप्तिः, ऐश्वर्यं सम्पदः प्रभुत्वं, जातिश्च कुलं चेत्यादिद्वन्द्वस्तान्येवाष्टमदाः चित्तोन्मादहेतुत्वात् तैर्मत्तो घूर्णितः प्राणी, किम् ? एतान्येव जात्यादीनि बध्नात्युपार्जयत्यशुभानि क्लिष्टानि, कथं ? बहु क्रियाविशेषणमेतत् बहुशोऽनन्तगुणानीत्यर्थः, चशब्दोऽध्यवसायवैचित्र्यात् तारतम्यदर्शनार्थः संसारे भव इति ॥३३०॥' अष्टमदस्थानपरिहारार्थमित्थमुपदिष्टं योगशास्त्रवृत्तौ -
'जातिभेदान् नैकविधा-नुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत, जातु जातिमदं सुधी: ? ॥१॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्त्तव्यः कुलमदो, महाकुलभवैरपि ॥५॥

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430