SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३७१ अष्टविधानि मदस्थानानि परदुःखोत्पादकवचन-भणनविरतानां पुरुषरत्नानाम् । इहलोके परलोके, कल्याणपरम्परा परमा ॥६॥ शीलकवचः न भिन्नः, येषां तीक्ष्णैः कामबाणैः । कर्पूरतारकीर्त्या, तैः भृतं धरावलयम् ॥७॥ दुःशीललोकसंसर्ग-त्यागबद्धादराणां जीवानाम् । गुणवल्ली उल्लासं, लभते सुविवेकफलजालम् ॥८॥ एतानि तानि सप्त च, सुखानि यानि जगति प्रसिद्धानि । एतैः यश्च सुखितः, स एव परमार्थतः सुखितः ॥९॥) गुरुः सप्तभिः सुखैरुपेतो भवति । मदानामभिमानानां स्थानानि आश्रया इति मदस्थानानि । तानि अष्टविधानि । तद्यथा - १ जातिमदः, २ कुलमदः, ३ रूपमदः, ४ बलमदः, ५ श्रुतमदः, ६ तपोमदः, ७ लाभमदः, ८ ऐश्वर्यमदश्च । उक्तञ्चोपदेशमालायां तद्वृत्तौ च - 'जाइ-कुल-रूव-बल-सुय-तव-लाभिस्सरिय अट्ठमयमत्तो। एयाई चिय बंधइ, असुहाई बहुं च संसारे ॥३३०॥ वृत्तिः - 'जाइ' गाहा, जातिाह्मणादिः, कुलमुग्रादि, रूपं शरीरसौन्दर्य, बलं शक्तिः, श्रुतमागमाधिगमः, तपोऽनशनादि, लाभोऽभीष्टवस्तुप्राप्तिः, ऐश्वर्यं सम्पदः प्रभुत्वं, जातिश्च कुलं चेत्यादिद्वन्द्वस्तान्येवाष्टमदाः चित्तोन्मादहेतुत्वात् तैर्मत्तो घूर्णितः प्राणी, किम् ? एतान्येव जात्यादीनि बध्नात्युपार्जयत्यशुभानि क्लिष्टानि, कथं ? बहु क्रियाविशेषणमेतत् बहुशोऽनन्तगुणानीत्यर्थः, चशब्दोऽध्यवसायवैचित्र्यात् तारतम्यदर्शनार्थः संसारे भव इति ॥३३०॥' अष्टमदस्थानपरिहारार्थमित्थमुपदिष्टं योगशास्त्रवृत्तौ - 'जातिभेदान् नैकविधा-नुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत, जातु जातिमदं सुधी: ? ॥१॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्त्तव्यः कुलमदो, महाकुलभवैरपि ॥५॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy