________________
पञ्चमी षट्त्रिशिका
अथ पञ्चमीं षट्त्रिशिकामाह -
मूलम् - सगभयरहिओ सगपिंडपाणएसणसुहेहिं संजुत्तो । अट्ठमयठाणरहिओ, छत्तीसगुणो गुरू जयउ ॥६॥
छाया - सप्तभयरहितः सप्तपिण्डपानैषणासुखैः संयुक्तः । अष्टमदस्थानरहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥६॥
प्रेमीया वृत्तिः - सप्तभयरहितः - सप्तविधैर्भयैरपेतः, सप्तपिण्डपानैषणासुखैः - सप्तविधाभिः पिण्डैषणाभिः सप्तविधाभिः पानैषणाभिः सप्तविधैश्च सुखैः, संयुक्तः समन्वितः अष्टमदस्थानरहितः अष्टप्रकारैर्मदस्थानै वियुक्तः, षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः ।
-
-
विस्तरार्थस्त्वयम् - भयमोहनीयकम्र्म्मोदयेन जायमानो जीवस्य भावविशेषो भयम्। तत् सप्तविधम् । तद्यथा १ इहलोकभयं, २ परलोकभयं, ३ आदानभयं, ४ अकस्माद्भयं, ५ आजीविकाभयं ६ मरणभयं ७ अश्लोकभयञ्च । उक्तञ्च प्रवचनसारोद्धारे तद्वृत्तौ च
'१ इह २ परलोया ३ ऽऽयाणा ४ मकम्ह ५ आजीव ६ मरण ७ मसिलोए । सत्त भट्ठाणाई इमाइं सिद्धंतभणियाई ॥ १३२०॥'
-
वृत्तिः भयं भयमोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानानि-आश्रया भयस्थानानि, तत्र १ मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो जन्तोर्जातौ यो लोकस्ततो भयमिति व्युत्पत्तेः, २ तथा परस्मात् – विजातीयात्तिर्यगादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, ३ तथा आदीयते इत्यादानं तदर्थं मम सकाशादयमिदमादास्यतीति यच्चौरादिभ्यो भयं तदादानभयं,