Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 360
________________ षड्विधा भाषाः ३४३ इन्द्रियाणि तान्येव आत्मनो मोहजननात् कुटुम्बं तस्य चेष्टा स्वस्वविषये व्यापारः । जिता परास्ता करणकुटुम्बचेष्टा च येन स तथा । मुक्तकुटुम्बस्नेहः परित्यक्तबन्धुवर्गानुराग: योगी शुभध्यानैकतानः संयमी मोक्षपदं गत्वा प्राप्य न वलते न संसारे समायाति ॥८/७॥' - पूर्णकलशगणिकृतवृत्तिः। पैशाचीभाषाभेदरूपा चूलिकापैशाचिकी भाषेत्थं बोद्धव्या - 'वन्थू सठासठेसु वि आलम्पित-उपसमो अनालम्फो । सव्वञ्ज-लाच-चलने अनुझायन्तो हवति योगी ॥८/१२॥' - प्राकृतव्याश्रयः (छाया- बन्धुः शठाशठेषु अपि आलम्बितोपशमः अनारम्भः । सर्वज्ञराजचरणान् अनुध्यायन् भवति योगी ॥८/१२॥) 'वृत्तिः - सर्वज्ञराजचरणान् अनुध्यायन् योगी अशठेषु अमायाविषु शठेष्वपि बन्धुः हितपरत्वाद् बान्धवकल्पः आलम्बितोपशमः आश्रितशान्तभावः । अनारम्भः विवर्जितसावधव्यापारः अनालम्भो वा परित्यक्तजीववधो भवति ॥८/१२॥' - पूर्णकलशगणिकृतवृत्तिः । अपभ्रंशभाषेत्थं ज्ञातव्या - 'करणाभासहुँ मणु उत्तारहु, करणाभासेहिँ मुक्खु न कसु हि वि । आसणु सयणु वि सव्वहाँ करणैहिँ, करणहुँ मुक्खु तो निरु सव्वस्सु वि ॥८/१७॥' ___ - प्रकृतव्याश्रयः (छाया-करणाभासेभ्यः मनः उत्तारयत्त, करणाभासैः मोक्षः न कस्यापि हि। ___ आसनं शयनमपि सर्वस्य करणैः, करणेभ्यो मोक्षः ततो निश्चितं सर्वस्यापि ॥८/१७॥) 'वृत्तिः - भो लोकाः ! करणाभासेभ्यः यथोक्तपद्मासनादिविपरीतासनेभ्यः मनः उत्तारयत व्यावर्त्तयत । तानि मा कुरुतेत्यर्थः । हि यस्मात् कारणात् करणाभासैः कृत्वा न कस्यापि मोक्षः निवृत्तिर्भवति । तथा सर्वस्य योगिनः करणैः प्रशस्तपद्मासनादिभिः कृत्वा आसनं लगण्डादिभिश्च कृत्वा शयनं निद्रा भवति । ततः तस्मात् करणेभ्यः सर्वस्यापि निरु इति निश्चितम् मोक्षः । निषिद्धासनपरिहारेण कर्मक्षपणार्थं पद्मासनादीनि कुर्वन् मुक्तिम् आप्नोतीत्यर्थः ॥८/१७॥' - पूर्णकलशगणिकृतवृत्तिः । गुरुः षड्विधवचनदोषलेश्यावश्यसव्व्यतर्कभाषाणां तात्त्विकं स्वरूपं जानाति । इत्थं षट्त्रिंशद्गुणौघविभूषितो गुरुरपराजितो भवतु ॥५॥ इति चतुर्थी षट्विशिका समाप्ता ॥५॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430