________________
षड्विधा भाषाः
३४३ इन्द्रियाणि तान्येव आत्मनो मोहजननात् कुटुम्बं तस्य चेष्टा स्वस्वविषये व्यापारः । जिता परास्ता करणकुटुम्बचेष्टा च येन स तथा । मुक्तकुटुम्बस्नेहः परित्यक्तबन्धुवर्गानुराग: योगी शुभध्यानैकतानः संयमी मोक्षपदं गत्वा प्राप्य न वलते न संसारे समायाति ॥८/७॥' - पूर्णकलशगणिकृतवृत्तिः।
पैशाचीभाषाभेदरूपा चूलिकापैशाचिकी भाषेत्थं बोद्धव्या - 'वन्थू सठासठेसु वि आलम्पित-उपसमो अनालम्फो । सव्वञ्ज-लाच-चलने अनुझायन्तो हवति योगी ॥८/१२॥' - प्राकृतव्याश्रयः (छाया- बन्धुः शठाशठेषु अपि आलम्बितोपशमः अनारम्भः ।
सर्वज्ञराजचरणान् अनुध्यायन् भवति योगी ॥८/१२॥) 'वृत्तिः - सर्वज्ञराजचरणान् अनुध्यायन् योगी अशठेषु अमायाविषु शठेष्वपि बन्धुः हितपरत्वाद् बान्धवकल्पः आलम्बितोपशमः आश्रितशान्तभावः । अनारम्भः विवर्जितसावधव्यापारः अनालम्भो वा परित्यक्तजीववधो भवति ॥८/१२॥' - पूर्णकलशगणिकृतवृत्तिः ।
अपभ्रंशभाषेत्थं ज्ञातव्या - 'करणाभासहुँ मणु उत्तारहु, करणाभासेहिँ मुक्खु न कसु हि वि । आसणु सयणु वि सव्वहाँ करणैहिँ, करणहुँ मुक्खु तो निरु सव्वस्सु वि ॥८/१७॥'
___ - प्रकृतव्याश्रयः (छाया-करणाभासेभ्यः मनः उत्तारयत्त, करणाभासैः मोक्षः न कस्यापि हि।
___ आसनं शयनमपि सर्वस्य करणैः, करणेभ्यो मोक्षः ततो निश्चितं सर्वस्यापि ॥८/१७॥)
'वृत्तिः - भो लोकाः ! करणाभासेभ्यः यथोक्तपद्मासनादिविपरीतासनेभ्यः मनः उत्तारयत व्यावर्त्तयत । तानि मा कुरुतेत्यर्थः । हि यस्मात् कारणात् करणाभासैः कृत्वा न कस्यापि मोक्षः निवृत्तिर्भवति । तथा सर्वस्य योगिनः करणैः प्रशस्तपद्मासनादिभिः कृत्वा आसनं लगण्डादिभिश्च कृत्वा शयनं निद्रा भवति । ततः तस्मात् करणेभ्यः सर्वस्यापि निरु इति निश्चितम् मोक्षः । निषिद्धासनपरिहारेण कर्मक्षपणार्थं पद्मासनादीनि कुर्वन् मुक्तिम् आप्नोतीत्यर्थः ॥८/१७॥' - पूर्णकलशगणिकृतवृत्तिः ।
गुरुः षड्विधवचनदोषलेश्यावश्यसव्व्यतर्कभाषाणां तात्त्विकं स्वरूपं जानाति । इत्थं षट्त्रिंशद्गुणौघविभूषितो गुरुरपराजितो भवतु ॥५॥
इति चतुर्थी षट्विशिका समाप्ता ॥५॥