________________
३४२
षड्विधा भाषाः (छाया- भवशतसहस्रदुर्लभे, जातिजरामरणसागरोत्तारे ।
जिनवचने गुणाकर !, क्षणमपि मा करिष्यसि प्रमादं ॥१२३॥) शौरसेनी भाषैवमवगन्तव्या - 'अम्हेहि तुह पसंसा किज्जदि अन्नेहि किज्जदे न कह। कित्ती रमिस्सदि तुहा सग्गादु रसातलादो वि ॥७/९९॥' - प्राकृतव्याश्रयः (छाया- अस्माभिः तव प्रशंसा क्रियते अन्यैः क्रियते न कथम् ? ।
कीर्तिः रमिष्यते तव आ स्वर्गात् रसातलादपि ॥७/९९॥) 'वृत्तिः - हे महाराज ! अस्माभिः सकललोकनमस्करणीयाभिरित्यर्थः । तव प्रशंसा श्लाघा क्रियते अतः कथम् अन्यैर्विबुधैः न क्रियते । अपि तु विधीयत एव । तथा तव कीर्तिः आस्वर्गाद् आ रसातलादपि स्वर्ग रसातलं च व्याप्य रमिष्यते विचरिष्यति ॥७/९९॥' - पूर्णकलशगणिकृतवृत्तिः ।
मागधी भाषैवमवसेया - 'अदिशुस्तिदं निविस्टे चदुस्त-वग्गं विवय्यिद-कशाए । शावय्य-योग-लहिदे शाहू, शाहदि अणञ-मणे ॥८/२॥' - प्राकृतद्वयाश्रयः (छाया- अतिसस्थितं निविष्टः चतुर्थ-वर्ग विवर्जितकषायः ।
सावद्ययोगरहितः साधुः, साधयति अनन्यमनाः ॥८/२॥) वृत्तिः - अतिसुस्थितम् अतिसमाहितं यथा भवति एवं निविष्टः धर्मध्याननिरतः अत एव विवर्जितकषायः क्रोधादिरहितः । सावधयोगरहितः सपापव्यापारवर्जितः । अनन्यमनाः मोक्षैकतानमानसः साधुः संयतः चतुर्थवर्ग निर्वाणं साधयति निष्पादयति । आत्माधीनम् आधत्त इति यावत् ॥८/२॥' - पूर्णकलशगणिकृतवृत्तिः ।
पैशाची भाषेत्थं ज्ञेया - 'सद्धाकसाय-हितपक-जित-करन-कतम्ब-चेसटो योगी। मुक्क-कुटुम्ब-सिनेहो न वलति गन्तून मुक्ख-पतं ॥४/७॥' - प्राकृतव्याश्रयः (छाया- शुद्धाकषायहृदय-जितकरणकुटुम्बचेष्टो योगी।
मुक्तकुटुम्बस्नेहो न वलते गत्वा मोक्षपदम् ॥८/७) 'वृत्तिः - शुद्धं निर्मलम् अकषायं क्रोधादिरहितं हृदयं यस्य । अत एव करणानि