SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३४१ षड्विधा भाषा: 'संस्कृतं प्राकृतं चैवापभ्रंशोऽथ पिशाचिकी। मागधी शौरसेनी च षड् भाषाश्च प्रकीर्तिताः ॥' रुद्रटकृतकाव्यालङ्कारेऽप्युक्तम् - "प्राकृत-संस्कृत-मागध-पिशाचभाषाश्च शौरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥' षड्भाषाचन्द्रिकोपोद्घाते तु षड्भाषा इत्थं प्रकीर्तिताः 'षड्विधा सा प्राकृती च शौरसेनी च मागधी । पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ॥ तत्र तु प्राकृतं नाम महाराष्ट्रोद्भवं विदुः । शूरसेनोद्भवा भाषा शौरसेनीति गीयते ॥ मगधोत्पन्नभाषां तां मागधी सम्प्रचक्षते । पिशाचदेशनियतं पैशाचीद्वितयं भवेत् ॥ पिशाचजातमथवा पैशाचीद्वयमुच्यते । अपभ्रंशस्तु भाषा स्यादाभीरादिगिरां चयः ॥ तत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । अधमे मध्यमे वाऽपि शौरसेनी प्रयुज्यते ॥ धीवराद्यतिनीचेषु मागधी विनियुज्यते । रक्षः पिशाचनीचेषु पैशाचीद्वितयं भवेत् ॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते।' तत्र संस्कृतभाषेत्थं ज्ञेया - 'शान्तो दान्तो सदागुप्तो, मोक्षार्थी विश्ववत्सलः । निर्दम्भां यां क्रियां कुर्यात्, साध्यात्मगुणवृद्धये ॥२/७॥' - अध्यात्मसारः प्राकृतभाषेवं ज्ञातव्या - 'भवसयसहस्सदुल्हे, जाइजरामरणसागरुत्तारे। जिणवयणंमि गुणायर !, खणमवि मा काहिसि पमायं ॥१२३॥' - उपदेशमाला
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy