________________
३४०
षड्विधा भाषाः साङ्ख्यानां स्युर्गुणाः सत्त्वं, रजस्तम इति त्रयः । साम्याऽवस्था भवत्येषां, त्रयाणां प्रकृतिः पुनः ॥८/२७८॥ प्रकृतेः स्यान्महत्तत्त्व-महङ्कारस्ततोऽपि च । पञ्च बुद्धीन्द्रियाणि स्यु-श्चक्षुरादीनि पञ्च च ॥८/२७९॥ कर्मेन्द्रियाणि वाक्पाणि-चरणोपस्थपायवः । मनश्च पञ्चतन्मात्राः, शब्दो रूपं रसस्तथा ॥८/२८०॥ स्पर्शो गन्धोऽपि तेभ्यः स्यात्, पृथ्व्याद्यं भूतपञ्चकम् । इयं प्रकृतिरेतस्याः , परस्तु पुरुषो मतः ॥८/२८१॥ पञ्चविंशतितत्त्वीयं, नित्यं साङ्ख्यमते जगत् । प्रमाणत्रितयं चात्र, प्रत्यक्षमनुमाऽऽगमः ॥८/२८२॥ यदैव जायते भेदः, प्रकृतेः पुरुषस्य च ।
मुक्तिरुक्ता तदा साङ्ख्यैः, ख्यातिः सैव च भण्यते ॥८/२८३॥' लोकायतापरनामनास्तिकदर्शनाभासे सर्वज्ञधर्माधर्मजीवपरलोकमोक्षा न सन्ति । प्रमाणे प्रत्यक्षरूपम् । एवमादिस्वरूपं नास्तिकमतम् । यदाहुः षड्दर्शनसमुच्चये -
'लोकायता वदन्त्येवं, नास्ति देवो न निर्वृतिः। धर्माधर्मों न विद्यते, न फलं पुण्यपापयोः ॥८॥ किञ्च पृथ्वी जलं तेजो, वायुर्भूतचतुष्टयम् ।
चैतन्यभूमिरेतेषां, मानं त्वक्षजमेव हि ॥८३॥' विवेकविलासे उक्तम् - _ 'पञ्चभूतात्मकं वस्तु, प्रत्यक्षं च प्रमाणकम् ।
नास्तिकानां मते नान्य-दात्माऽमुत्र शुभाशुभम् ॥८/३०४॥' इति षड्दर्शनमतरूपं तर्कषट्कं ज्ञेयम् ।
भाष्यते उच्यते इति भाषा । सा षड्विधा । तद्यथा - १ संस्कृतं, २ प्राकृतं, ३ शौरसेनी, ४ मागधी, ५ पैशाची, ६ अपभ्रंशश्च । उक्तञ्च श्रीचण्डकविविरचिते प्राकृतलक्षणे -