SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३९ षड्विधास्ताः 'साङ्ख्या निरीश्वराः केचित्, केचिदीश्वरदेवताः । ये ते निरीश्वरास्तेऽमी, नारायणपरायणाः ॥४२॥ प्रत्यक्षमनुमानञ्च, शाब्दञ्चेति प्रमात्रयम् । अन्तर्भावोऽत्र शेषाणां, प्रमाणानां सयुक्तिकः ॥४४॥ अमीषां साङ्ख्यसूरीणां, तत्त्वानां पञ्चविंशतिः । सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद् गुणत्रयम् ॥४५॥ एतेषां या समाऽवस्था, सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका ॥४६॥ ततः सञ्जायते बुद्धि-महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात्, ततः षोडशको गणः ॥४७॥ स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रञ्च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्-तथा कर्मेन्द्रियाणि च ॥४८॥ पायूपस्थवचःपाणि-पादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि, तन्मात्राणीति षोडश ॥४९॥ रूपात्तेजो रसादापो, गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथा चैवं, पञ्चभ्यः पञ्चभूतकम् ॥५०॥ एवं चतुर्विंशतितत्त्वरूपं, निवेदितं साङ्ख्यमते प्रधानम् । अन्यश्च कर्ता विगुणश्च, भोक्ता तत्त्वं पुमान् नित्यचिदभ्युपेतः ॥५१॥ प्रकृतेविरहो मोक्ष-स्तन्नाशे स स्वरूपगः । बध्यते मुच्यते चैव, प्रकृतिः पुरुषो न तु ॥५३॥' श्रीहरिभद्रसूरिविरचित-षड्दर्शनसमुच्चये उक्तम् - 'साङ्ख्या निरीश्वराः केचित्, केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्, तत्त्वानां पञ्चविंशतिः ॥३६॥' विवेकविलासे उक्तम् - 'साङ्ख्यैर्देवः शिवः कैश्चिन्-मतो नारायणः परैः । उभयोः सर्वमप्यन्य-त्तत्त्वप्रभृतिकं समम् ॥८/२७६॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy