________________
३३८
षड्विधास्ताः संस्काररूपनवविशेषगुणात्यन्तोच्छेदे सति भवति । एवमादिस्वरूपं वैशेषिकदर्शनमतम् । यदवाचि षड्दर्शनसमुच्चये
'देवताविषयो भेदो, नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु, विद्यतेऽसौ निर्दिश्यते ॥५९॥ द्रव्यं गुणस्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च, तत्त्वषट्कं तु तन्मते ॥६०॥ प्रमाणं च द्विधामीषां, प्रत्यक्षं लैङ्गिकं तथा।
वैशेषिकमतस्यैष, सक्षेपः परिकीर्तितः ॥६७॥' श्रीराजशेखरसूरिकृतषड्दर्शनसमुच्चये उक्तम् -
'शिवेनोलूकरूपेण, कणादस्य मुनेः पुरः। मतमेतत् प्रकथितं, तत् औलूक्यमुच्यते ॥३०॥ वैशेषिकाणां योगेभ्यो, मानतत्त्वगता भिदा ।
प्रत्यक्षमनुमानं च, मते तेषां प्रमाद्वयम् ॥१४॥' विवेकविलासे उक्तम् -
'द्रव्यं गुणस्तथा कर्म, सामान्यं सविशेषकम् । समवायश्च षट्तत्त्वी, तद्व्याख्यानमथोच्यते ॥८/२९१॥ चतुर्विंशतिवैशेषिकगुणान्तर्गुणा नव।
बुद्ध्यादयस्तदुच्छेदो, मुक्तिर्वैशेषिकी तु सा ॥८/३०१॥' साङ्ख्यदर्शने ईश्वरः देवः । केचन ईश्वरं न मन्यन्ते । तत्त्वानि पञ्चविंशतिविधानि । तद्यथा - आत्मा, प्रकृतिः, बुद्धिः (महान्), अहङ्कारः, पञ्च तन्मात्राणि गन्धरूपरसस्पर्शशब्दाभिधानि, पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाख्यानि, षड् बुद्धीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्श्रोत्रमनःसञ्ज्ञानि, पञ्च कर्मेन्द्रियाणि पायूपस्थवच:पाणिपादाभिधानानि च । प्रमाणानि त्रीणि प्रत्यक्षानुमानागमरूपाणि । नित्यैकान्तवादः । मोक्षमार्गः पञ्चविंशतितत्त्वज्ञानरूपः । मोक्षः प्रकृतिवियोगात्पुरुषस्य स्वरूपेणावस्थानरूपः । एवमादिस्वरूपं साङ्ख्यदर्शनमतम् । यदवोचत् षड्दर्शनसमुच्चये श्रीराजशेखरसूरि: