________________
षड्विधास्तर्काः
तत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥९७॥
दृष्टान्तोऽप्यथ सिद्धान्तो ऽवयवस्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥ ९८ ॥
जातयो निग्रहस्थाना-न्येषां व्ययस्तु दुस्तरः । आत्यन्तिकस्तु दुःखानां, वियोगो मोक्ष उच्यते ॥९९॥ '
विवेकविलासे उक्तम्
-
'शिवस्य दर्शने तर्का - वुभौ न्यायविशेषकौ ।
न्याये षोडशतत्त्वी स्यात्, षट्तत्त्वी च विशेषके ॥८/२८५ ॥
अन्योऽन्यतत्त्वान्तर्भावाद् द्वयोर्भेदोऽस्ति नास्ति वा । द्वयोरपि शिवो देवो नित्यः सृष्ट्यादिकारकः ॥८/२८६॥' हारिभद्रीयषड्दर्शनसमुच्चये उक्तम् -
'आक्षपादमते देवः, सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो, नित्यबुद्धिसमाश्रयः ॥१३॥ प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तो ऽप्यथ सिद्धान्ता-वयवौ तर्कनिर्णयौ ॥ १४ ॥ वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च । जातयो निग्रहस्थाना-नीति तत्त्वानि षोडश ॥ १५ ॥ '
विवेकविलासे उक्तम्
-
'नैयायिकानां चत्वारि, प्रमाणानि मतानि च । प्रत्यक्षमागमोऽन्यच्चानुमानमुपमाऽपि च ॥८/ २८७॥
विषयेन्द्रियबुद्धीनां, वपुषः सुखदुःखयोः ।
अभावादात्मसंस्थानं, मुक्तिनैयायिकैर्मता ॥८/३००॥'
३३७
वैशेषिकदर्शनेऽपि शङ्करो देवता । तत्त्वानि षड् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानि । प्रमाणे द्वे प्रत्यक्षानुमानरूपे । नित्यानित्यैकान्तवादः । मोक्षमार्गः श्रवणमनननिदिध्यासनसाक्षात्काररूपः । मोक्षः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म