________________
३३६
षड्विधास्तर्काः 'क्षणिकाः सर्वसंस्कारा, इति या वासना स्थिरा । स मार्ग इति विज्ञेयः, स च मोक्षोऽभिधीयते ॥८/२७०॥ प्रत्यक्षमनुमानं च, प्रमाणद्वितयं पुनः। चतुःप्रस्थानिका बौद्धाः, ख्याता वैभाषिकादयः ॥८/२७१॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते। सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥८/२७२॥ आचारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां, मन्यन्ते मध्यमाः पुनः ॥८/२७३॥ रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥८/२७४॥ कृत्तिः कमण्डलुhण्डयं, चीरं पूर्वाह्नभोजनम् ।
सङ्घो रक्ताम्बरत्वं च, शिश्रिये बौद्धभिक्षुभिः ॥८/२७५॥' नैयायिकदर्शने शिवो देवता । तत्त्वानि षोडश प्रमाण-प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्ता-ऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छलजाति-निग्रहस्थाननामानि । प्रमाणानि चत्वारि प्रत्यक्षानुमानोपमानागमाभिधानानि । नित्या-नित्यैकान्तवादः । मोक्षमार्गः षोडशतत्त्वज्ञानरूपः । मोक्षः षडिन्द्रियषड्विषय-षड्बुद्धि-सुख-दुःखशरीररूपैकविंशतिविधदुःखात्यन्तच्छेदरूपः । एवमादिस्वरूपं नैयायिकदर्शनमतम् । यदाहुः षड्दर्शनसमुच्चये मलधारिश्रीराजशेखरसूरिसूत्रिते -
'अथ यौगमतं ब्रूमः, शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढ-कौपीनपरिधायिनः ॥८४॥ तेषां च शङ्करो देवः, सृष्टिसंहारकारकः । तस्यावताराः सारा ये, तेऽष्टादश तदर्चिताः ॥१०॥ अक्षपादो गुरुस्तेषां, तेन ते ह्यक्षपादकाः । उत्तमां संयमावस्थां, प्राप्ता नग्ना भ्रमन्ति ते ॥१५॥ प्रमाणानि च चत्वारि, प्रत्यक्षं लैङ्गिक तथा । उपमानञ्च शाब्दञ्च, तत्फलानि पृथक् पृथक् ॥१६॥