________________
षड्विधास्तर्काः
३३५
-
स्वरूपं बौद्धदर्शनमतम् । उक्तञ्च षड्दर्शनसमुच्चयेऽज्ञातकर्तृकतदवचूर्याञ्च -
'तत्र बौद्धमते ताव - देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥
अव०
चतुर्णां दुःखदुःखसमुदयमार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम ।
प्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानञ्च, सम्यग्ज्ञानं द्विधा यतः ॥९॥
"
क्षणिकाः सर्वसंस्कारा, इत्येवं वासना यका । स मार्ग इह विज्ञेयो, निरोधो मोक्ष उच्यते ॥७॥ ' विवेकविलासे उक्तम् -
-
'बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्याऽख्यया तत्त्वव-चतुष्टयमिदं क्रमात् ॥८/२६५॥
दुःखमायतनं चैव, ततः समुदयो मतः । मार्गश्चैतस्य च व्याख्या, क्रमेण श्रूयतामतः ॥८ / २६६ ॥
षड्दर्शनसमुच्चये उक्तम् -
'दुःखं संसारिणः स्कन्धा-स्ते च पञ्च प्रकीर्त्तिताः । विज्ञानं वेदना सञ्ज्ञा, संस्कारो रूपमेव च ॥५॥'
विवेकविलासे उक्तम्
'रागादीनां गणो यस्मात्, समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः, स स्यात्समुदयः पुनः ॥८/२६९॥'
षड्दर्शनसमुच्चये उक्तम् -
=
'पञ्चेन्द्रियाणि शब्दाद्या, विषयाः पञ्च मानसम् । धर्मायतनमेतानि, द्वादशायतनानि च ॥८॥'
विवेकविलासे उक्तम् -