SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ षड्विधास्तर्काः ३३५ - स्वरूपं बौद्धदर्शनमतम् । उक्तञ्च षड्दर्शनसमुच्चयेऽज्ञातकर्तृकतदवचूर्याञ्च - 'तत्र बौद्धमते ताव - देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥ अव० चतुर्णां दुःखदुःखसमुदयमार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम । प्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानञ्च, सम्यग्ज्ञानं द्विधा यतः ॥९॥ " क्षणिकाः सर्वसंस्कारा, इत्येवं वासना यका । स मार्ग इह विज्ञेयो, निरोधो मोक्ष उच्यते ॥७॥ ' विवेकविलासे उक्तम् - - 'बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्याऽख्यया तत्त्वव-चतुष्टयमिदं क्रमात् ॥८/२६५॥ दुःखमायतनं चैव, ततः समुदयो मतः । मार्गश्चैतस्य च व्याख्या, क्रमेण श्रूयतामतः ॥८ / २६६ ॥ षड्दर्शनसमुच्चये उक्तम् - 'दुःखं संसारिणः स्कन्धा-स्ते च पञ्च प्रकीर्त्तिताः । विज्ञानं वेदना सञ्ज्ञा, संस्कारो रूपमेव च ॥५॥' विवेकविलासे उक्तम् 'रागादीनां गणो यस्मात्, समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः, स स्यात्समुदयः पुनः ॥८/२६९॥' षड्दर्शनसमुच्चये उक्तम् - = 'पञ्चेन्द्रियाणि शब्दाद्या, विषयाः पञ्च मानसम् । धर्मायतनमेतानि, द्वादशायतनानि च ॥८॥' विवेकविलासे उक्तम् -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy