SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३४ षड्विधास्ताः जीवाजीवौ तथा पुण्यं, पापमानवसंवरौ । बन्धश्च निर्जरामोक्षौ, नव तत्त्वानि तन्मते ॥४७॥ प्रत्यक्षं च परोक्षं च, द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥५५॥ तथाभव्यत्वपाकेन, यस्यैतत्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगा-ज्जायते मोक्षभाजनम् ॥५४॥' मीमांसकदर्शने सर्वज्ञो देवता नास्ति । नित्यवेदवाक्येभ्यस्तत्त्वनिर्णयो जायते । प्रमाणानि षट् प्रत्यक्षानुमानोपमानागमार्थापत्त्यभावाख्यानि । नित्यायेकान्तवादः । मोक्षमार्गः वेदविहितानुष्ठानरूपः । मोक्षः नित्यनिरतिशयसुखप्रादुर्भावरूपः । एवमादिस्वरूपं मीमांसकदर्शनमतम् । यदुक्तं षड्दर्शनसमुच्चये - 'जैमिनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि, यस्य मानं वचो भवेत् ॥१८॥ तस्मादतीन्द्रियार्थानां, साक्षाद्रष्टरभावतः । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चयः ॥६९॥ प्रत्यक्षमनुमानञ्च, शाब्दं चोपमया सह। अर्थापत्तिरभावश्च, षट् प्रमाणानि जैमिनेः ॥७२॥' विवेकविलासे उक्तम् - 'मीमांसका द्विधा कर्म-ब्रह्ममीमांसकत्वतः । वेदान्ती मन्यते ब्रह्म, कर्म भट्टप्रभाकरौ ॥८/२५८॥ प्रत्यक्षमनुमानं च, शब्दश्चोपमया सह। अर्थापत्तिरभावश्च, भट्टानां षट्प्रमाण्यसौ ॥८/२५९॥ प्रभाकरमते पञ्चै-वैतान्यभाववर्जनात् । अद्वैतवादिवेदान्ति-प्रमाणं तु यथा तथा ॥८/२६०॥' बौद्धदर्शने सुगतो देवता । तत्त्वानि चत्वारि दुःखायतनसमुदयमार्गरूपाणि आर्यसत्यानि । प्रमाणे द्वे प्रत्यक्षानुमानसझे । क्षणिकैकान्तवादः । मोक्षः सर्वक्षणिकत्वसर्वनैरात्म्यवासनाक्लेशसमुदयच्छेदनं प्रदीपस्येव ज्ञानसन्तानोच्छेदश्च । एवमादि
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy