________________
३३३
षड्विधास्तर्काः
'बोद्धं नैयायिकं साङ्ख्यं, जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि, दर्शनानाममून्यहो ॥३॥ वृत्तिः - अहो इति इष्टामन्त्रणे, दर्शनानां मतानाममूनि नामानीति सङ्ग्रहः । ज्ञेयानीति क्रिया अस्तिभवत्यादिवदनुक्ताप्यवगन्तव्या । तत्र बौद्धमिति बुद्धो देवताऽस्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः । साङ्ख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं सञ्ज्ञा । जैनमिति जिनो देवताऽस्येति जैनमार्हतं दर्शनम् । वैशेषिकमिति काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिष्टमिति वैशेषिकम् । जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥३॥
नैयायिकमतादन्ये, भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां, पञ्चैवास्तिकवादिनः ॥७८॥ वृत्तिः - अन्ये आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८|| दर्शनानां षट् सङ्ख्या जगति प्रसिद्धा सा कथं फलवतीत्याह -
षष्ठदर्शनसङ्ख्या तु, पूर्यते तन्मते किल ।
लोकायतमतक्षेपात्, कथ्यते तेन तन्मतम् ॥७९॥ वृत्तिः - ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते । तुः पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ॥७९॥'
षड्दर्शनानां मतान्येवं ज्ञेयानि-तत्र जैनदर्शनेऽर्हन् देवता । तत्त्वानि नव जीवाजीवपुण्यपापास्रवसंवरबन्धनिर्जरामोक्षाभिधानि । प्रमाणे द्वे प्रत्यक्षपरोक्षाख्ये । नित्यानित्याद्यनेकान्तवादः । मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्ररूपः । मोक्षः सकलकर्मक्षये शुद्धस्वरूपस्थात्मरूपः । मुक्तात्मा लोकाग्रप्रदेशेऽवतिष्ठते । एवमादिस्वरूपं जैनदर्शनमतम् । उक्तञ्च षड्दर्शनसमुच्चये -
'जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामल्लः, केवलज्ञानदर्शनः ॥४५॥