________________
३३२
षड्विधास्ताः (छाया- वर्तनालक्षणः कालः, जीवः उपयोगलक्षणः ।
ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च ॥२८/१०।।) वृत्तिः - वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादि लक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥२८/१०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाह
नाणं च दंसणं चेव, चरित्तं च तवो तहा ।
वीरिअं उवओगो अ, एयं जीवस्स लक्खणं ॥२८/११॥ (छाया- ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा ।
वीर्यं उपयोगश्च, एतत् जीवस्य लक्षणम् ॥२८/११॥) वृत्तिः - 'वीरिअंति' वीर्यं सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणम् । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥२८/११॥ अथ पुद्गललक्षणमाह
सबंधयार उज्जोओ, पहा छायाऽऽतवेइ वा।
वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं ॥२८/१२॥ (छाया- शब्द: अन्धकारः उद्योतः, प्रभा छायाऽऽतप इति वा ।
वर्ण-रस-गन्ध-स्पर्शाः, पुद्गलानां तु लक्षणम् ॥२८/१२॥ वृत्तिः - शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप्, उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, इतिशब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥२८/१२॥'
तर्काः षड्दर्शनमतरूपाः । दर्शनानि षड्विधानि । तद्यथा - १ जैनदर्शनं, २ मीमांसकदर्शनं, ३ बौद्धदर्शनं, ४ नैयायिकदर्शनं, ५ वैशेषिकदर्शनं, ६ साङ्ख्यदर्शनञ्च । उक्तञ्च षड्दर्शनसमुच्चये सोमतिलकसूरिकृततवृत्तौ च -