________________
षड्विधानि सद्द्द्रव्याणि
'धम्मो अहम्मो आगासं, कालो पुग्गल जंतवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥२८/ ७॥
(छाया - धर्मः अधर्मः आकाशं, कालः पुद्गलजन्तवः । एष लोक इति प्रज्ञप्तः, जिनैः वरदशिभिः ॥२८/७)
वृत्तिः - धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः । अत्र प्रसङ्गाल्लोकस्वरूपमप्याह - एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैर्वरदर्शिभिः ॥२८/७॥
धर्मादीन्येव द्रव्याणि भेदत आह
-
धम्मो अहम्मो आगासं, दव्वं इक्किक्कमाहिअं । अाणि यदव्वाणि, कालो पुग्गलजंतवो ॥२८/८ ॥
द्रव्याणां लक्षणान्याह
(छाया- धर्मः अधर्मः आकाशं, द्रव्यमेकैकमाख्यातम् ।
अनन्तानि च द्रव्याणि, कालः पुद्गलजन्तवः ||२८/८ || ) वृत्तिः - धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनर्द्रव्याणि कालः पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥२८/८॥
गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥२८/९॥
३३१
(छाया - गतिलक्षणस्तु धर्मः, अधर्मः स्थानलक्षणः ।
भाजनं सर्वद्रव्याणां, नभः अवगाहलक्षणम् ॥२८/९॥)
वृत्तिः - गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्त, धर्मो धर्मास्तिकायः । अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तल्लक्षणः । अयं भावः - स्वत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधार: सर्वद्रव्याणां नभः आकाशं, अवगाहोऽवकाशस्तल्लक्षणम् । जीवादीनामवगाढुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥२८/९ ॥
वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥२८/१०॥