SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३० षड्विधानि सद्व्याणि गृहे वा तिष्ठन् पूर्णेऽपि पौरुष्यादौ प्रत्याख्याने यावदद्यापि भोजनसामग्री न भवति तावत्क्षणमपि प्रत्याख्यानरहितो मा भूवमित्यङ्गष्ठादिकं चिद्रं करोति यावदङ्गुष्ठं मुष्टि ग्रन्थि वा न मुञ्चामि गृहं वा प्रविशामि स्वेदबिन्दवो वा न शुष्यन्ति यावदेतावन्तो वा उच्छासा न भवन्ति जलादिमञ्चिकायां यावदेते जलबिन्दवो वा न शुष्यन्ति दीपो वा यावन्न निर्वाति तावन्न भुञ्जेऽहमिति । एतदेवाह - 'अंगुट्ठी'त्यादि, अङ्गष्ठश्च ग्रन्थिश्च मुष्टिश्च गृहं च स्वेदश्च उच्छासश्च स्तिबुकश्च जोइक्खश्चेति समाहारो द्वन्द्वः, जोइक्खशब्दश्च देश्यो दीपे वर्त्तते, तद्विषये क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदं, 'अभिग्गहेसु वि य' त्ति केनचित्पौरुष्यादि न कृतं किन्तु केवल एवाभिग्रहः क्रियते यावद् ग्रन्थ्यादिकं न छोटयतीत्यादि तत्रापीदं भवतीत्यर्थः, तथा साधोरपीदं भवति, यथाऽद्यापि गुरवो मण्डल्यां नोपविशन्ति अन्यद्वा सागारिकादिकं किञ्चित्कारणमजनि ततः पूर्णेऽपि प्रत्याख्यानावधौ प्रत्याख्यानरहितो मा स्थामित्यङ्गष्ठादीनि साधुरपि करोतीति ॥२००॥ नवकारपोरसीए पुरिमड्ढेकासणेगठाणे य । आयंबिलऽभत्तटे चरिमे य अभिग्गहे विगई ॥२०२॥ (छाया- नमस्कारपौरुष्योः पूर्वार्धेकाशनैकस्थानेषु च । आचाम्लाऽभक्तार्थयोः चरमे च अभिग्रहे विकृतिः ।।२०२॥) वृत्तिः - 'नवकारे'त्यादि, अत्र भीमो भीमसेनभीमन्यायेन नमस्कारशब्दात्परतः सहितशब्दो द्रष्टव्यः, ततो नमस्कारश्च, कोऽर्थः ? नमस्कारसहितं च पौरुषी च नमस्कारपौरुष्यौ तस्मिन्, नमस्कारविषये पौरुषीविषये चेत्यर्थः, पूर्वार्धं च एकासनं च, आचाम्लश्च अभक्तार्थश्च आचाम्लाभक्तार्थो तत्र आचाम्लविषये उपवासविषये, तथा भवचरमे दिवसचरमे वेति, तथा अभिग्रहे अभिग्रहविषये, तथा 'विगइ' त्ति विकृतिविषये, सप्तम्येकवचनं लुप्तमत्र द्रष्टव्यमिति, दशभेदमिदमद्धाप्रत्याख्यानम् ॥२०२॥' द्रवन्ति गच्छन्ति ताँस्तान्पर्यायानिति द्रव्याणि । सन्ति विद्यमानानि च तानि द्रव्याणीति सद्र्व्याणि । तानि गुणपर्यायवन्ति । उक्तञ्च तत्त्वार्थाधिगमसूत्रे'गुणपर्यायवद्र्व्य म् ॥५/३६॥' सद्व्याणि षोढा । तद्यथा - १ धर्मास्तिकायः, २ अधर्मास्तिकायः, ३ आकाशास्तिकायः, ४ कालः, ५ पुद्गलास्तिकायः, ६ जीवास्तिकायश्च । यदाह उत्तराध्ययनसूत्रे भावविजयकृततवृत्तौ च -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy