________________
षड्विधमावश्यकम्
३२९
चित्तनिरोधेन भिन्दन्ति विदारयन्ति मुनिवराः साधवः अष्टविधं अष्टप्रकारं कर्मसङ्घातं ज्ञानावरणीयादिलक्षणमिति गाथार्थः || १५५१॥'
प्रत्याख्यानस्वरूपमेवं प्रदर्शितं श्रीप्रवचनसारोद्धारे तद्वृत्तौ च
‘चतुर्थं प्रत्याख्यानद्वारमिदानीं तत्र च प्रतीति- अविरतिस्वरूपप्रभृतिप्रतिकूलया आमर्यादया आकारकरणस्वरूपया आख्यानं कथनं प्रत्याख्यानं, तद् द्वेधा - मूलगुणरूपमुत्तरगुणरूपञ्च, मूलगुणा यतींनां पञ्च महाव्रतानि श्रावकाणामणुव्रतानि, उत्तरगुणास्तु यतीनां पिण्डविशुद्ध्यादयः श्रावकाणां तु गुणव्रतशिक्षाव्रतानि, मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिग्व्रतादीनां च प्रतिपक्षनिवृत्तिरूत्वात् ।....तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते, तच्च दशधा, तदाह भावि अईयं कोडीसहियं च नियंटियं च सागारं । विगयागारं परिमाणवं निरवसेसमट्टमयं ॥ १८७॥
साकेयं च तहऽद्धा पच्चक्खाणं च दसमयं । संकेयं अट्ठा होइ, अद्धायं दसहा भवे ॥ १८८ ॥
(छाया - भावि अतीतं कोटिसहितं च नियन्त्रितं च सागारम् । विगताकारं परिमाणवत् निरवशेषमष्टमकम् ॥ १८७॥
साकेतं च तथाऽद्धा प्रत्याख्यानं च दशमकम् । सङ्केतं अष्टधा भवति, अद्धाकं दशधा भवेत् ॥१८८॥
अंगुट्ठी-गंठी-मुट्ठी- घरसेयुस्सासथिबुगजोइक्खे । पच्चक्खाणविचाले किच्चमिणमभिग्गहेसुवि य ॥ २०० ॥
-
"
वृत्ति: - ' भावि अईय 'मित्यादि, भावि - अनागतं, अतीतं पूर्वकालकरणीयं, कोटिसहितं चः समुच्चये, नियन्त्रितं, चः पूर्ववत्, साकारं सहाकारैर्यद्वर्त्तते, अनाकारं विगताकारमाकाररहितं, परिणामवत्, निरवशेषमष्टमकम् ॥ १८७॥ 'साकेय 'मित्यादि, साकेतं च कृतसङ्केतं नवमं तथाऽद्धाप्रत्याख्यानं दशमकमिति । तत्र यत्सङ्केत प्रत्याख्यानं तदष्टधा भवति, यच्चाद्धाप्रत्याख्यानं तद्दशधा भवेदिति गाथासङ्क्षेपार्थः ॥ १८८॥
(छाया- अङ्गुष्ठ-ग्रन्थि-मुष्टि-गृह-स्वेदोच्छ्वास-स्तिबुकदीपे । प्रत्याख्यानविचाले कृत्यमिदं अभिग्रहेष्वपि च ॥ २००॥) वृत्तिः - तच्चैवं भवति
-
-
श्रावकः कोऽपि पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो