________________
३२८
षड्विधमावश्यकम् (छाया- स उत्सर्गः द्विविधः, चेष्टायां अभिभवे च ज्ञातव्यः ।
भिक्षाचर्यायां प्रथमः उपसर्गाभियोजने द्वितीयः ॥१४५२॥) वृत्तिः - ‘सो उस्सग्गो दुविहो' स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायव्वो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि - चेष्टाविषय एवासौ भवति, 'उवसग्गऽभिउंजणे बिइओ 'त्ति उपसर्गा-दिव्यादयस्तैरभियोजनमुपसर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याघभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवम्भूतं तस्मिन् द्वितीय इत्यर्थः ॥१४५२॥
संवच्छरमुक्कोसं अंतमुहुत्तं च अभिभवुस्सग्गे।
चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥१४५८॥ (छाया- संवत्सरमुत्कृष्टं अन्तर्मुहूर्तं च अभिभवोत्सर्गे ।
चेष्टोत्सर्गस्य तु कालप्रमाणं उपरिष्टाद् वक्ष्यामः ॥१४५८॥) व्याख्या - संवत्सरमुत्कृष्ट कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अंतोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं-जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्न उवरि वोच्छंति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥१४५८॥
चत्तारि दो दुवालस वीसं चत्ता य हुँति उज्जोआ।
देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥१५३१॥ (छाया- चत्वारो द्वौ द्वादश विंशतिः चत्वारिंशच्च भवन्ति उद्योताः ।
दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिके च वर्षे च ॥१५३१॥) वृत्तिः - साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह - ‘चत्तारि' त्ति गाहा भावितार्था ॥१५३१॥
काउस्सग्गे जह सुट्ठियस्स, भज्जति अंगमंगाई।
इय भिंदंति सुविहिया, अट्टविहं कम्मसंघायं ॥१५५१॥ (छाया- कायोत्सर्गे यथा सुस्थिस्य, भज्यन्ते अङ्गोपाङ्गानि ।
इति भिन्दन्ति सुविहिताः, अष्टविधं कर्मसङ्घातम् ॥१५५१॥) वृत्तिः - कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि ‘इय' एवं