________________
षड्विधमावश्यकम्
३२७ (छाया- प्रतिषिद्धानां करणे, कृत्यानामकरणे च प्रतिक्रमणम् ।
__ अश्रद्धाने च तथा, विपरीतप्ररूपणायाञ्च ॥१२७१॥) वृत्तिः - प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां करणे निष्पादने आसेवन इत्यर्थः, किं ? प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, कृत्यानाम् आसेवनीयानां कालस्वाध्यायादीनां योगानाम् अकरणे अनिष्पादनेऽनासेवने प्रतिक्रमणम्, अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्त्तते, विपरीतप्ररूपणायाञ्च अन्यथा पदार्थकथनायाञ्च प्रतिक्रमणमिति गाथार्थः ॥१२७१॥
पडिक्कमणं देसिय राइयं च इत्तरियमावकहियं च ।
पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ॥१२४७॥ (छाया- प्रतिक्रमणं दैवसिकं रात्रिकञ्च इत्वरिकं यावत्कथिकं च ।
पक्षिकं चातुर्मासिकं सांवत्सरिकं उत्तमार्थे च ॥१२४७॥) व्याख्या - प्रतिक्रमणं प्राग्निरूपितशब्दार्थं, दैवसिकं दिवसनिर्वृत्तं रात्रिकं रजनिनिर्वृत्तम्, इत्वरं तु - अल्पकालिकं दैवसिकाद्येव यावत्कथिकं यावज्जीविकं व्रतादिलक्षणं पाक्षिकं पक्षातिचारनिर्वृत्तम्, आह - दैवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थम् ? उच्यते, गृहदृष्टान्तोऽत्र -
'जह गेहं पइदियहंपि सोहियं तहवि पक्खसंधीए ।
सोहिज्जइ सविसेसं एवं इहयंपि णायव्वं ॥१॥' (छाया- यथा गृहं प्रतिदिवसमपि शोधितं तथापि पक्षसन्धौ ।
शोध्यते सविशेष एवं इहापि ज्ञातव्यम् ॥१॥) एवं चातुर्मासिकं सांवत्सरिकम, एतानि हि प्रतीतान्येव, उत्तमार्थे च भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः ॥१२४७॥'
'कायस्य-शरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छसितादिभ्यः क्रियान्तराध्यासमाश्रित्य च उत्सर्गः - त्यागो 'नमो अरिहंताणं' इति वचनात् पूर्वं स कायोत्सर्गः ।...॥२४७॥' - इति कायोत्सर्गशब्दस्य व्युत्पत्तिः कृता प्रवचनसारोद्धारवृत्तौ । कायोत्सर्गस्य स्वरूपमेवं ज्ञेयमावश्यकनियुक्तितद्वत्तिभ्याम् -
'सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे य नायव्वो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ ॥१४५२॥