________________
३२६
षड्विधमावश्यकम् 'क्षायोपशमिकाद्भावादौदयिकवशं गतः ।
तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥' वीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमणं प्रतिक्रमणं, उक्तञ्च - ___ 'प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु ।
निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥ ॥१७५।' आवश्यकनियुक्तौ हरिभद्रसूरिकृततद्वृत्तौ चोक्तम् -
'सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।
मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१२४४॥ (छाया- सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य ।
मध्यमानां जिनानां कारणजाते प्रतिक्रमणम् ॥१२४४॥) वृत्तिः - सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु मध्यमानां जिनानाम् अजितादीनां पार्श्वपर्यन्तानां कारणजाते अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ॥१२४४॥
मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१२५०॥ (छाया- मिथ्यात्वप्रतिक्रमणं तथैव असंयमे प्रतिक्रमणम् ।
कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥१२५०॥) वृत्तिः - मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैमिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव असंयमे असंयमविषये प्रतिक्रमणम् असंयमः - प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्त्तते, कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, योगानाञ्च मनोवाक्कायलक्षणानाम् अप्रशस्तानाम् अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥१२५०॥
पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥१२७१॥