________________
षड्विधमावश्यकम्
३२५ कर्त्तव्यं निर्जरार्थम् । तत्राऽऽचर्यते सेव्यते कल्याणकामैरित्याचार्यः सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्थैर्यधैर्यादिगुणगणमणिभूषितश्च, उप-समीपे समागत्याधीयते-पठ्यते यस्मादसावुपाध्यायः तथा चैतत्स्वरूपम् -
'सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू ।
आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥१॥' (छाया- सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः ।
आचार्यस्थानयोग्यः सूत्रं वक्ति उपाध्यायः ॥१॥) इति । यथोचितं प्रशस्तयोगेषु साधून् प्रवर्त्तयतीति प्रवर्तकः, यदुक्तम् -
'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ ।
असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥१॥' (छाया- तप:संयमयोगेषु यो योग्यः तत्र तं प्रवर्त्तयति ।
असहं च निवर्तयति गणतप्तिमान् प्रवर्तकः ॥१॥) तथा सीदतः साधून् ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनतः स्थिरीकरोतीति स्थविरः,
उक्तञ्च
'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं।
जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥१॥' (छाया- स्थिरीकरणत् पुनः स्थविरः प्रवर्तकव्यापरितेषु अर्थेषु ।
यो यत्र सीदति यतिः सद्बलः तं स्थिरं करोति ॥१॥) रत्नाधिकः - पर्यायज्येष्ठः, एतेषां कृतिकर्म विधेयम् ॥१०२॥' प्रतिक्रमणस्य स्वरूपमेवं निरूपितं श्रीप्रवचनसारोद्धारवृत्तौ -
'तत्र 'प्रतिक्रमण मिति प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रम पादविक्षेपे' इत्यस्य भावे ल्युट्प्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थ:शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्रमणं, यदाह -
'स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद्गतः ।
तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥' प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाहुः