SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२४ घडिवधमावश्यकम् तत्तो सयावि तेसिं, चउवीसण्हंपि परमपुरिसाणं । जो संथवो विहिज्जइ, तं चउवीसत्ययं बिंति ॥२॥ भावत्थयदव्वत्थय-भेएणं सो दुहा सुयक्खाओ। भावत्थओ जईणं, जहजुग्गं दुन्निवि गिहीणं ॥३॥' (छाया- इह अवसर्पिणीकाले, इह भरते ऋषभनाथप्रमुखाः । चतुर्विंशतिः तीर्थकराः, परमपदपथं प्राकाशयन् ॥१॥ ततः सदापि तेषां, चतुर्विंशतेरपि परमपुरुषाणाम् । यः संस्तवः विधीयते, तं चतुर्विंशतिस्तवं ब्रुवन्ति ॥२॥ भावस्तवद्रव्यस्तव-भेदेन स द्विधा स्वाख्यातः । भावस्तवः यतीनां, यथायोग्यं द्वावपि गृहीणाम् ॥३॥) वन्दनस्य स्वरूपमेवं गदितं श्रीगुरुवन्दनभाष्ये - 'गुरुवंदणमह तिविहं, तं फिट्टा छोभ बारसावत्तं । सिरनमणाइसु पढमं, पुण्णखमासमणदुगि बीयं ॥१॥ तइयं तु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे । बीयं तु दंसणीण य, पयट्ठियाणं च तइयं तु ॥२॥' (छाया- गुरुवन्दमथ त्रिविधं, तत् फिट्टा-छोभ-द्वादशावर्तम् । शिरोनमनादिषु प्रथम, पूर्णक्षमाश्रमणद्विके द्वितीयम् ॥१॥ तृतीयं तु छन्दनद्विके, तत्र मिथ आदिमं सकलसङ्के । द्वितीयं तु दर्शनिनां च, पदस्थितानां च तृतीयं तु ॥२॥) पञ्च वन्दनयोग्याः प्रतिपादिताः श्रीप्रवचनसारोद्धारे तवृत्तौ च । तथाहि - 'आयरिय उवज्झाए पवत्ति थेरे तहेव रायणिए । एएर्सि किइकम्मं कायव्वं निज्जद्धाए ॥१०२॥ (छाया- आचार्यः उपाध्यायः प्रवर्तकः स्थविरः तथैव रत्नाधिकः । एतेषां कृतिकर्म कर्तव्यं निर्जरार्थम् ॥१०२॥) वृत्तिः - 'आयरिये 'त्यादि, अधिकारिणो वन्दनकस्य योग्याः पञ्च - आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां पञ्चानां कृतिकर्म वन्दनकं
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy