SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२३ षड्विधमावश्यकम् वृत्तिः - 'आवस्सयस्स०' गाहा । व्याख्या-आवश्यकस्य आवश्यकपदाभिधेयस्य शास्त्रस्य एषः पूर्वोक्तप्रकारः पिण्डार्थः समुदायार्थो वर्णितः कथितः समासेन सङ्केपेण । .... इत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि भणिष्यामीति गाथार्थः । तत्कीर्तनार्थमेवाऽऽह - तद्यथा - सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम्।' तत्र सामायिकस्वरूपमेवं प्रतिपादितमावश्यकनियुक्तौ मलयगिरिसूरिसन्डब्धतद्वृत्तौ च - 'जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासि ॥७९६॥ (छाया- यस्य समानीतः आत्मा, संयमे नियमे तपसि । तस्य सामायिकं भवति, इति केवलिभाषितम् ॥७९६॥) वृत्तिः - यस्य साधोरात्मा - जीवः, 'सामाणिओ'त्ति समानीत:-सकारस्य सूत्रे दीर्घत्वं प्राकृतत्वात्, सम्यक् सन्निहितीकृतः, स्ववीर्योल्लासविशेषेणेति गम्यते, क्व समानीत इत्याह - संयमे-मूलगुणेषु नियमे-उत्तरगुणेषु तपसि-द्वादशप्रकारेऽनशनादिलक्षणे, तस्यैवम्भूतस्याप्रमादिनः सामायिकं भवति, इतिशब्दः परिसमाप्त्यर्थः, एतेषु त्रिषु संयमादिषु (समाहितस्य) सम्पूर्ण सामायिकं भवतीति केवलिभि:-सर्वज्ञैर्भाषितम् ॥७९६।। जो समो सव्वभूएसुं, तसेसु थावरेसु य । तस्स सामाइअंहोइ, इइ केवलिभासिअं ॥७९७॥ (छाया- यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तस्य सामायिकं भवति इति केवलिभाषितम् ॥७९७।। वृत्तिः - यः समो-मध्यस्थः आत्मा, त(स्व)मिव परं पश्यतीति भावः, सर्वभूतेषुसर्वेषु प्राणिषु, तद्यथा-त्रसेषु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु तस्य सामायिकं भवति, इति-एतावत् केवलिभिर्भाषितं ॥७९७॥' चतुर्विंशतिस्तवस्य स्वरूपमेवं ज्ञातव्यम् - 'इह अवसप्पिणिकाले, इह भरहे उसहनाहपामुक्खा । चउवीसं तित्थयरा, परमपयपहं पयासिंसु ॥१॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy