________________
३२२
षड्विधमावश्यकम् निरायुधैर्वराकैस्तैर्हतैः किं नः प्रयोजनम् । घात्याः सशस्त्रा एवेति, तुर्यश्चातुर्यवान् जगौ ॥३/३७७॥ सशस्त्रैरपि नश्यद्भिर्हतैः किं नः फलं भवेत् । सायुधो युध्यते यः स, वध्य इत्याह पञ्चमः ॥३/३७८॥ परद्रव्यापहरणमेकं पापमिदं महत् । - प्राणापहरणं चान्यच्चेत्कुर्मस्तर्हि का गतिः ॥३/३७९॥ धनमेव तदादेयं, मारणीयो न कश्चन ।
षष्ठः स्पष्टमभाषिष्ट, प्राग्वदत्रापि भावना ॥३/३८०॥' श्रमणश्रावकौ अहोरात्रमध्ये यदवश्यं कुरुतस्तदावश्यकम् । यदवाचि श्रीअनुयोगद्वारसूत्रे तद्वृत्तौ च -
'समणेण सावएण य, अवस्सकायव्वयं हवति जम्हा ।
अंतो अहोनिसस्स उ, तम्हा आवस्सयं नाम ॥३॥ (छाया- श्रमणेन श्रावकेन च, अवश्यकर्तव्यकं भवति यस्मात् ।
अन्तरहोनिशस्य तु, तस्मादावश्यकं नाम ॥३॥) वृत्तिः- 'समणेण.' गाहा, श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यं क्रियते तस्मादावश्यकम् ॥३॥'
आवश्यकं षड्विधम् । तद्यथा - १ सामायिकं, २ चतुर्विंशतिस्तवः, ३ वन्दनं, ४ प्रतिक्रमणं, ५ कायोत्सर्गः ६ प्रत्याख्यानञ्च । यदुक्तं श्रीअनुयोगद्वारसूत्रे तद्वृत्तौ च -
'आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं ।
एत्तो एक्कक्कं पुण अज्झयणं कित्तइस्सामि ॥७॥ तं जहा-१ सामाइयं, २ चउवीसत्थओ, ३ वंदणं, ४ पडिक्कमणं, ५ काउस्सग्गो ६ पच्चक्खाणं। (छाया- आवश्यकस्य एषः पिण्डार्थो वर्णितः समासेन ।
__ अत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥७॥ तद्यथा - १ सामायिकं, २ चतुर्विंशतिस्तवः, ३ वन्दनं, ४ प्रतिक्रमणं, ५ कायोत्सर्गः, ६ प्रत्याख्यानम् ।)