________________
षड्विधा लेश्याः
'यथा पथः परिभ्रष्टाः, पुरुषाः षण् महाटवीम् । प्राप्ताः समन्तादेक्षन्त, भक्ष्यं दिक्षु बुभुक्षिताः ॥३/३६४॥ जम्बूवृक्षं क्वचित्तत्र, ददृशुः फलभङ्गरम् । आह्वयन्तमिवाध्वन्यान्, मरुच्चपलपल्लवैः ॥३/३६५॥ एकस्तत्राह वृक्षोऽयं, मूलादुन्मूल्यते ततः । सुखासीनाः फलास्वादं, कुर्मः श्रमविवर्जिताः ॥३/३६६॥ अन्यः प्राह किमेतावान्, पात्यते प्रौढपादपः । शाखा महत्यश्च्छिद्यन्ते, सन्ति तासु फलानि यत् ॥३/३६७॥ तृतीयोऽथावदत् शाखा, भविष्यन्ति कदेदृश्यः । प्रशाखा एव पात्यन्ते, यतः एताः फलैर्भूताः ॥३/३६८॥ उवाच वाचं तुर्योऽथ, तिष्ठन्त्वेता वराकिकाः। यथेच्छं गुच्छसन्दोहं, छिन्यो येषु फलोद्गमः ॥३/३६९॥ न नः प्रयोजनं गुच्छैः, फलैः किन्तु प्रयोजनम् । तान्येव भुवि कीर्यन्ते, पञ्चमः प्रोचिवानिति ॥३/३७०॥ षष्ठेन शिष्टमतिना, समादिष्टमिदं ततः। पतितानि फलान्यो, मा भूत्पातनपातकम् ॥३/३७१॥ भाव्याः षण्णामप्यमीषां, लेश्याः कृष्णादिकाः क्रमात् । दर्श्यतेऽन्योऽपि दृष्टान्तो, दृष्टः श्रीश्रुतसागरे ॥३/३७२॥ केचन ग्रामघाताय, चौराः क्रूरपराक्रमाः । क्रामन्तो मार्गमन्योऽन्यं विचारमिति चक्रिरे ॥३/३७३॥ एकस्तत्राह दुष्टात्मा, यः कश्चिद् दृष्टिमेति नः । हन्तव्यः सोऽद्य सर्वोऽपि, द्विपदो वा चतुष्पदः ॥३/३७४॥ अन्यः प्राह चतुष्पद्भि-रपराद्धं न किञ्चन । मनुष्या एव हन्तव्या, विरोधो यैः सहात्मनाम् ॥३/३७५॥ तृतीयः प्राह न स्त्रीणां, हत्या कार्याऽतिनिन्दिता । पुरुषा एव हन्तव्या, यतस्ते क्रूरचेतसः ॥३/३७६॥