SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२० षड्विधा लेश्याः पयणुक्कोहमाणे अ, मायालोभे अपयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥३४/२९॥ तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥३४/३०॥ (छाया- प्रतनुक्रोधमानश्च, माया लोभश्च प्रतनुकः । प्रशान्तचित्तः दान्तात्मा योगवान् उपधानवान् ॥३४/२९॥ तथा प्रतनुवादी च, उपशान्तः जितेन्द्रियः । एतद्योगसमायुक्तः, पद्मलेश्यां तु परिणमेत् ॥३४/३०॥) वृत्तिः - प्रतनुक्रोधमानः चः पूर्ती माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा ॥३४/२९॥ 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषक: उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥३४/३०॥ अट्टहाणि वज्जित्ता, धम्मसुक्काणि झायए। पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३४/३१॥ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥३४/३२॥ . (छाया- आर्त्तरौद्रे वर्जयित्वा, धर्मशुक्ले ध्यायति । प्रशान्तचित्तः दान्तात्मा, समितः गुप्तः च गुप्तिषु ॥३४/३१॥ सरागः वीतरागो वा, उपशान्तो जितेन्द्रियः । एतद्योगसमायुक्तः, शुक्ललेश्यां तु परिणमेत् ॥३४/३२।।) वृत्तिः - आर्त्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याहप्रशान्तचित्त इत्यादि, समितः समितिमान्, गुप्तो निरुद्धाशुभयोगः 'गुत्तिसु'त्ति गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरीतो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत्, विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥३४/३१॥ ॥३४/३२॥' एतल्लेश्यापरिणतजीवपरिणामप्रदर्शकौ जम्बूफलखादनेच्छुकपुरुषषट्कदृष्टान्तग्रामघातनप्रचलितचौरषट्कदृष्टान्तौ लोकप्रकाशादेवं ज्ञेयौ -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy