________________
षड्विधा लेश्याः
वंके वंकसमायारे, निअडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ||३४/२५॥ उप्फालगदुट्ठवाई अ, तेणे आवि अ मच्छरी । एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥ ३४/२६॥ (छाया - वक्रः व्रकसमाचारः, निकृतिमान् अनृजुकः । परिकुञ्चकः औपधिकः, मिथ्यादृष्टिः अनार्यः ॥३४/२५॥
उत्प्रासकदुष्टवादी, स्तेनश्चापि च मत्सरी । एतद्योगसमायुक्तः कापोतलेश्यां तु परिणमेत् ॥३४/२६॥)
वृत्तिः - वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्त्तुमशक्यः, परिकुञ्चकः स्वदोषप्रच्छादकः, उपधिश्छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्यादृष्टिरनार्यश्च ॥ ३४ / २५॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनश्चौर: चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेषं प्राग्वत् ॥३४ / २६॥
नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ ३४/२७॥ पियधम्मे दधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥३४/२८ ॥
(छाया - नीचैर्वृत्तिः अचपलः, अमायी अकुतूहल: ।
विनीतविनयः दान्तः, योगवान् उपधानवान् ॥३४/२७॥ प्रियधर्म्मः दृढधर्म्मः, अवद्य भीरुः हितैषकः । एतद्योगसमायुक्तः, तेजोलेश्यां तु परिणमेत् ॥३४/२८॥)
३१९
वृत्तिः - नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सिक्तोऽचपलः, अमायी, अकुतूहल:, विनयः स्वभ्यस्तगुर्वाद्युचितप्रवृत्तिः, अत एव दान्तः, योगः स्वाध्यायादिव्यापारस्तद्वान्,
तत्र ' वज्जभीरू 'त्ति
उपधानवान् विहितशास्त्रोपचारः || ३४ / २७|| 'पिय' इत्यादि अवद्य भीरुर्हितैषको मुक्तिगवेषकः, शेषं प्राग्वत् ॥३४/२८॥
-
विनीत