SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१८ तथा निष्ठुरपरिणामः, निस्त्रिंशः अजितेन्द्रियः । एतद्योगसमायुक्तः, कृष्णलेश्यां तु परिणमेत् ॥३४ / २२॥) वृत्ति: - पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमर्द्दकत्वादिनेति शेष:, तीव्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावद्यव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्त्तते इति साहसिकश्चौर्यादिदुष्कर्म कारीत्यर्थः, नरः उपलक्षणत्वात् स्त्र्यादिर्वा ॥ ३४ / २१ ॥ 'निर्द्धधस 'त्ति ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसो 'त्ति निस्त्रिंशो जीवान् निघ्नन् मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एतद्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्द्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात् स्फटिकमिव तद्रूपतां भजेत्। उक्तं हि - - "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" इति ॥३४/२२॥ इस्सा - अमरिस- अतवो, अविज्ज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ॥३४ / २३॥ सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो । अजोगसमाउत्तो, नीललेसं तु परिणमे ॥ ३४/२४॥ षड्विधा लेश्याः (छाया - ईर्ष्या अमर्षः अतपः, अविद्या माया अड्रीकता । गृद्धिः प्रदोषश्च शठः, प्रमत्तः रसलोलुपः ॥३४ / २३॥ सातगवेषकश्च आरम्भाविरतः क्षुद्रः साहसिको नरः । एतद्योगसमायुक्तः, नीललेश्यां तु परिणमेत् ॥ ३४ / २४ ॥ ) वृत्तिः - ईर्ष्या च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो - विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पट रसलोलुपः ||३४ / २३ || सातं सुखं तद्गवेषकश्च कथं मे सुखं स्यादिति बुद्धिमान्, आरम्भात् प्राण्युपमर्दादविरतः, शेषं प्राग्वत् ॥३४ / २४॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy