SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ षड्विधा लेश्याः ३१७ गर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हालादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगाँतत्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः ॥१७/१६॥' अधिकरणोदीरकवचनं न वक्तव्यम् । यदाह - 'खामियउवसमियाई, अहिगरणाइं पुणो उदीरेड्। जो कोइ तस्स वयणं, अहिगरणोदीरणं भणिअं॥' (छाया- क्षान्तोपशान्तानि, अधिकरणानि पुनः उदीरयति । ___ यः कोऽपि तस्य वचनं, अधिकरणोदीरणं भणितम् ॥) लिश्यते-श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः । उक्तञ्च प्राचीनचतुर्थकर्मग्रन्थवृत्तौ श्रीमलयगिरिसूरिभिः - 'लिश्यते श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभरूपः परिणामविशेषः ॥२॥' सा षोढा । तद्यथा - १ कृष्णलेश्या, २ नीललेश्या, ३ कापोतलेश्या, ४ तेजोलेश्या, ५ पद्मलेश्या ६ शुक्ललेश्या च । यदाहुः उत्तराध्ययनसूत्रे भावविजयकृततद्वृत्तौ च - "किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा उ, नामाइं तु जहक्कमं ॥३४/३॥ (छाया- कृष्णा नीला च कापोती च, तैजसी पद्मा तथैव च । शुक्ललेश्या च षष्ठा तु, नामानि तु यथाक्रमम् ॥३४/३) वृत्तिः - स्पष्टा ॥३४/३॥ पंचासवप्पवत्तो, तीहि अगुत्तो छसु अविरओ अ। तिव्वारंभपरिणओ, खुद्दो साहस्सिओ नरो ॥३४/२१॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥३४/२२॥ (छाया- पञ्चास्त्रवप्रवृत्तः, त्रिभिरगुप्तः षट्सु अविरतश्च । तीव्रारम्भपरिणतः, क्षुद्रः साहसिकः नरः ॥३४/२१॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy