SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ षड्विधा वचनदोषाः शुद्रपरिभववचनम् । भोजननिमित्तं गृहे गृहे द्रमति गच्छतीति द्रमको रङ्कः । दुर्भगः अनिष्टः । एतानि अपि अनिष्टवचनानि न भाषेत प्रज्ञावान् ॥७/१४॥) कर्कशवचनं न वदितव्यम् । यदुच्यते श्रीदशवैकालिकसूत्रे श्रीतिलकाचार्यविहिततद्वृत्तौ च - 'तहेव फरुसा भासा, गुरुभूओवघाइणी। सच्चा वि सा न वत्तव्वा, जओ पावस्स आगमो ॥७/११॥ (छाया- तथैव परुषा भाषा, गुरुभूतोपघातिनी । सत्याऽपि सा न वक्तव्या, यतः पापस्य आगमः ॥७/११॥) वृत्तिः - तथैव कस्यचित् पूर्वं दासस्य सतः कुत्रापि गतस्य, गुरुभूतस्य - प्रधानीभूतस्य, उपघातिनी - छायापातकरी त्वं दासोऽभूदित्येवंरूपा 'फरुसा भासा' सत्यापि न वक्तव्या, यतः तस्यासमाधानेन स्वस्य पापस्यागमः स्यात् ॥७/११॥' नात्रकोद्घट्टनवचनं न भाषणीयम् । यदवोचत् श्रीदशवैकालिकसूत्रे तद्वृत्तौ च - 'अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति अ। पिउस्सिए भायणिज्जत्ति, धूए नत्तुणिअत्ति अ॥७/१५॥ हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि। होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥७/१६॥ (छाया- आर्यिके प्रायिके वापि अम्ब मातृष्वस इति च । पितृष्वसः भागिनेयीति, दुहितः ननीति च ॥७/१५॥ हले हले इति अन्य इति, भट्ट स्वामिनि गोमिनि । होले गोले वसुले इति, स्त्रियं नैवमालपेत् ॥७/१६॥) वृत्तिः- 'अज्जिए' त्ति सूत्रं, आर्यिके प्रायिके वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नवीति च । एतान्यामन्त्रणवचनानि वर्त्तन्ते, तत्र मातुः पितुर्वा माताऽऽयिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः ॥७/१५॥ __ किञ्च-'हले हले 'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि, तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादि
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy