SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ षड्विधा वचनदोषाः ३१५ सञ्जननी उपशान्तस्य - उपशमं नीतस्याधिकरणस्य कलहस्य च उल्लासः प्रकामं प्रवर्त्तनं तस्य सञ्जननीसमुत्पादयित्रीत्यर्थः ॥१३२१॥' तत्रालीकवचनं न वक्तव्यम् । यदाह श्रीदशवैकालिकसूत्रे तद्वृत्तौ च 'मुसावाओ उ लोगम्मि, सव्वसाहूहिं गरिहिओ । अविस्साओ अ भूआणं, तम्हा मोसं विवज्जए ॥६ / १२॥ (छाया - मृषावादस्तु लोके, सर्वसाधुभिर्गर्हितः । अविश्वासश्च भूतानां, तस्मात् मृषां विवर्जयेत् ॥६ / १२॥) वृत्ति: - 'मुसावाउ' त्ति सूत्रं, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः गर्हितो निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञाताऽपालनात्, अविश्वासश्च अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थ: ॥६ / १२॥' हीलितवचनं न भाषितव्यम् । यदवाचि - 'सासूयगणियवायग - जिट्ठज्जायरियपमुहसद्देहिं । जमिहामंतणमेयं, हीलियवयणं न भासिज्जा ॥' - (छाया - सासूयगणिकवाचक- ज्येष्ठार्याचार्यप्रमुखशब्दैः । यदिहामन्त्रणमेतत्, हीलितवचनं न भाषेत II) खिंसितवचनं न वाच्यम् । यदाहुः श्रीदशवैकालिकसूत्रे तच्चूर्णौ च - 'तहेव होले गोलेत्ति, साणे वा वसुलित्ति अ । दम दूह वा वि, ण तं भासेज्ज पण्णवं ॥७/१४॥ (छाया - तथैव होले गोले इति, श्वा वा वसुल इति च । द्रमकः दुर्भगः वापि, न तत् भाषेत प्रज्ञावान् ॥७/१४॥) चूर्णि: - 'तहेव होले गोले 'त्ति सिलोगो । 'होले' त्ति निडुरमामंतणं देसीए भविलवदणमिव । एवं ‘गोले’' इति । दुच्चेट्ठितातो सुणएणोवमाणवदणं । वसुलो सुद्दपरिभववयणं । भोयणनिमित्तं घरे घरे द्रमति गच्छतीति दमओ रंको । दूभगो अणि । ताि अणिवयणाणि ण भासेज्ज पण्णवं ॥ ७/१४ | ' (छाया- 'तहेव होले गोले' इति श्लोकः । 'होले' इति निष्ठुरमामन्त्रणं देश्यां भविलवदनमिव । एवं 'गोले' इति । दुश्चेष्टितात् शूनकेनोपमानवदनम् । वसुल
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy