________________
चतुर्थी षट्विशिका साम्प्रतं चतुर्थी षट्विशिकामाह - मूलम् - छव्वयणदोसलेसा-वस्सयसद्दव्वतक्कभासाण ।
परमत्थजाणणेणं, छत्तीसगुणो गुरू जयउ ॥५॥ छाया - षड्वचनदोषलेश्या-वश्यकसāव्यतर्कभाषाणाम् ।
परमार्थज्ञानेन, षट्त्रिंशद्गुणो गुरुर्जयतु ॥५॥ प्रेमीया वृत्तिः - षड्वचनदोषलेश्यावश्यकसāव्यतर्कभाषाणाम्-षण्णां वचनदोषाणां, षण्णां लेश्यानां, षण्णामावश्यकानां, षण्णां सद्व्याणां, षण्णां तर्काणां, षण्णां भाषाणाञ्च, परमार्थज्ञानेन स्वरूपावगमेन, षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
भावार्थस्त्वयम् - उच्यन्ते इति वचनानि । दुष्यन्ते इति दोषाः । वचनानां दोषा इति वचनदोषाः । ते षड्विधाः । तद्यथा - १ अलीकवचनं, २ हीलितवचनं, ३ खिसितवचनं, ४ कर्कशवचनं, ५ नात्रकोद्घट्टनवचनं, ६ अधिकरणोदीरकवचनञ्च । यदुक्तं प्रवचनसारोद्धारे तद्वृत्तौ च -
'हीलिय खिसिय फरुसा अलिआ तह गारहत्थिया भासा ।
छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी ॥१३२१॥ (छाया- हीलिता खिसिता परुषा अलीका तथा गार्हस्थिका भाषा ।
षष्ठी पुनरुपशान्ताधिकरणोल्लाससञ्जननी ॥१३२१॥) वृत्तिः - भाष्यन्ते प्रोच्यन्ते भाषा वचनानि ताश्च अप्रशस्ता गुरुकर्मबन्धहेतुत्वादशोभना हीलितादिभेदतः षड् भवन्ति, तत्र हीलिता सासूयमवगणयन् वाचक ! ज्येष्ठार्येत्यादि जल्पनं १, खिसिता जन्मकर्माद्युद्घाटनं २, परुषा दुष्टशैक्षेत्यादि कर्कशवचनं ३, अलीका किं दिवा प्रचलयसीत्यादिप्रश्ने न प्रचलयामीत्यादि भणनं ४, तथा गृहस्थानामियं भाषा गार्हस्थी सा च पुत्र मामक भागिनेयेत्यादिरूपा ५, षष्ठी पुनर्भाषा उपशान्ताधिकरणोल्लास