Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 353
________________ ३३६ षड्विधास्तर्काः 'क्षणिकाः सर्वसंस्कारा, इति या वासना स्थिरा । स मार्ग इति विज्ञेयः, स च मोक्षोऽभिधीयते ॥८/२७०॥ प्रत्यक्षमनुमानं च, प्रमाणद्वितयं पुनः। चतुःप्रस्थानिका बौद्धाः, ख्याता वैभाषिकादयः ॥८/२७१॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते। सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥८/२७२॥ आचारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां, मन्यन्ते मध्यमाः पुनः ॥८/२७३॥ रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥८/२७४॥ कृत्तिः कमण्डलुhण्डयं, चीरं पूर्वाह्नभोजनम् । सङ्घो रक्ताम्बरत्वं च, शिश्रिये बौद्धभिक्षुभिः ॥८/२७५॥' नैयायिकदर्शने शिवो देवता । तत्त्वानि षोडश प्रमाण-प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्ता-ऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छलजाति-निग्रहस्थाननामानि । प्रमाणानि चत्वारि प्रत्यक्षानुमानोपमानागमाभिधानानि । नित्या-नित्यैकान्तवादः । मोक्षमार्गः षोडशतत्त्वज्ञानरूपः । मोक्षः षडिन्द्रियषड्विषय-षड्बुद्धि-सुख-दुःखशरीररूपैकविंशतिविधदुःखात्यन्तच्छेदरूपः । एवमादिस्वरूपं नैयायिकदर्शनमतम् । यदाहुः षड्दर्शनसमुच्चये मलधारिश्रीराजशेखरसूरिसूत्रिते - 'अथ यौगमतं ब्रूमः, शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढ-कौपीनपरिधायिनः ॥८४॥ तेषां च शङ्करो देवः, सृष्टिसंहारकारकः । तस्यावताराः सारा ये, तेऽष्टादश तदर्चिताः ॥१०॥ अक्षपादो गुरुस्तेषां, तेन ते ह्यक्षपादकाः । उत्तमां संयमावस्थां, प्राप्ता नग्ना भ्रमन्ति ते ॥१५॥ प्रमाणानि च चत्वारि, प्रत्यक्षं लैङ्गिक तथा । उपमानञ्च शाब्दञ्च, तत्फलानि पृथक् पृथक् ॥१६॥

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430