Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram Author(s): Yatindrasuri, Publisher: Rajenda Pravachan Karyalay View full book textPage 4
________________ बीचम्पक माला ॥२॥ परिपक्कता नीतं मृण्मयभाण्डमिव पुनः सन्धातुं केनापि नैव शक्यते । किञ्चामुष्य शीलस्य सम्यगाराधितस्य लोकोत्तरोऽत्यद्भुतः प्रभावो जगत्रये समेषां भव्यानां सुप्रतीत एव जागर्ति दिवानिशम् । इत्थममुष्य सच्छीलस्यापि प्राधान्यं जगत्यामाततमानां मुखादालोकमानोऽप्यहमपि यथामति संक्षिप्तमुपवर्ण्य सम्प्रति प्रस्तुतां कथां वर्णयामि । तथाहि अस्मिन् भरतखण्डे जम्बूद्वीपे लक्ष्मीदेव्या मनोहरागारमिव सकलदेशललामभृतो मालवो नाम जनपदो वरीवति । यस्याऽनुपमविभूतिलवलेशोऽपि दिवा नाऽऽलम्भि । भृशमेष स्वीययाऽतुलया धियाऽमरपुरं हेपयमाणो विचकास्ति । अतः स्वर्गादपि गरीयानेष मालवो जनपदः सदैव चाचकीतितमाम् , स्वर्गे यथा विमानानि शोभन्ते, तद्वद् यत्र नगराणि महत्तराणि निलिम्पानामपि चेतोहराणि शोशुभ्यन्ते । किश्च यत्र नगराणि विशालतराणि सकमलानि शश्वदमलजलपरिपूर्णानि सरांस्यसंख्यानि दरीदृश्यन्ते । लसन्ति च तेषु नगरेषु सकलशास्त्रपारङ्गता विद्याचणाः कर्मठाः सुरा इव भूयांसो भूसुराः। विभ्राजन्ते च तेषु गगनचुम्बीनि सप्ताष्टभौमानि सौधानि । मदयन्ति च येषु नगरेषु वैमानिका अप्सरस इव सौन्दर्यगर्विताः सच्छीलमण्डिताः सुस्थिरयौवनाः सकलाश्च कान्ताः। ध्रुवमत्र देशे ग्रामटिका अपि देशान्तरीयनगराद् दीर्घतरा एव समुल्लसन्ति विषयग्रामा इव । विषयग्रामे यथा विविधविषयाः सुखार्हा अतिसुन्दराः सन्ति, तथैव यत्र मालवीयपुर्या कियत्यः कान्ता बालाः सुकोमलाः, कियत्यस्तडिद्गौरवर्णाः सुतारुण्यपरिपूर्णा यूनां मनोहराः सुसजिताः सदैव विराजन्ते । किञ्च नानाविधकमनीयाराम-वापीकूप-तटाकानेकमणिमयजिनेश्वरीयगगनलिहचैत्यैः सुमण्डिता लघुग्रामा अपि विदुषां चेतःसु द्रुततरमाह्लादं जनयितुं पटीयांसः सन्ति, चेत्तत्र महानगराणि सुरनगरतोऽप्यधिकानि स्युस्तत्र किञ्चित्रम् । किंबहुना, यत्र याताः कवयो मोमुद्यमाना द्यामपि विषयग्रामे यथा विविधाविषण्ण परिपूर्णा यूनां मनोहराः सानामा अपि विदुषां चेतः शान्तरीयनगर सुन्दराः सन्ति नकमणिमयायपरिपूर्णा ॥२॥ क 25 Jain Education For Personal & Private Use Only प्र jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 94