Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 416
________________ 5 10 15 20 25 ३६० ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीनेमिनाथमालोच्य, मातलिर्वज्रसङ्क्रमम् । महानेमिशरे चक्रे, शक्तिस्तेन हताऽपतत् ॥२९३॥ शरैरतत्रसद् दुर्योधनं तत्र धनञ्जयः । बाणवृष्ट्याऽप्यनाधृष्टिर्विधुरं रौधिरं व्यधात् ॥२९४॥ इतोऽपि यदुभिर्वीरैर्वैरिसैन्यं विलोडितम् । जघ्निरे भूरिशो भूपा, द्रुमाद्या माद्यदुद्यमाः ॥ २९५॥ संहताभ्यामितो रामाङ्गजैर्मत्तगजैरिव । भीमा - ऽर्जुनाभ्यां कौरव्याः, शरज्यीचक्रिरे क्रुधा ॥ २९६ ॥ वेगालदलक्षसन्धान-मोक्षः पार्थः शरान् किरन् । श्यामप्रभो बभौ धन्वी, वर्षन् धारा इवाम्बुदः ॥२९७॥ अथाऽवलोक्य संहारमूर्तिमर्जुनमातुरः । संभूय भूरिभूपालैर्गर्जन् दुर्योधनोऽरुधत् ॥२९८॥ मुक्तमार्गणसार्थेन, पार्थेन विरथीकृतः । दुर्योधनः समुत्पत्य, प्रपेदे शकुने रथम् ॥२९९॥ बभञ्ज भूभुजो धीरम्मन्यानन्यानपि क्रुधा । पार्थः शरभरैः पद्मान्, धारासारैरिवाम्बुदः ||३००॥ शक्त्याऽवधीद् द्विषां शल्यं, शल्यं युधि युधिष्ठिरः । अमोघेनाऽऽशु वज्रेण, वज्रपाणिरिवाचलम् ॥३०१ || हत्वा दुःशासनस्याऽऽशु, गदयाऽथ व्यदारयत् । उरो दुरोदरच्छद्मजयक्रुद्धो वृकोदरः ||३०२|| सहदेवकरोत्थेन, श्येनेनेव पतत्रिणा । रयादुड्डीयमानेन, चिच्छिदे शकुनेः शिरः ||३०३|| दीप्तं कौरवसेनाया, जीवितव्यमिवेषुभिः । अस्तं निनाय गाण्डीवधन्वा युधि जयद्रथम् ||३०४|| ज्वालाजालैरिव व्योम, व्याप्नुवन् विशिखैरथ । निर्दग्धुमर्जुनं दाववर्णः कर्णः समुत्थितः || ३०५॥ १. 'दूत्कू' खंता० ॥ D:\maha-k.pm5\ 2nd proof

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515