Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 458
________________ ४०२] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् [* यत् पूर्वैर्न निराकृतं सुकृतिभिः साम्मुख्य-वैमुख्ययो द्वैतं तन्मम वस्तुपालसचिवेनोन्मूलितं दुर्यशः । आशास्तेऽद्भुततोरणोभयमुखी लक्ष्मीस्तदस्मै मुदा, श्रीनाभेयविभुप्रसादवशतः साम्मुख्यमेवाधुना ॥३९॥ तस्यानुजश्च जगति प्रथितः पृथिव्यामव्याजपौरुषगुणप्रगुणीकृतश्रीः । श्रीतेजपाल इति पालयति क्षितीन्द्रमुद्रां समुद्ररसनावधिगीतकीर्तिः ॥४०॥ समुद्रत्वं श्लाघे महिमहिमधाम्नोऽस्य बहुधा, यतो भीष्मग्रीष्मोपमविषमकालेऽप्यजनि यः । क्षणेन क्षीणायामितरजनदानोदकततौ, दयावेला हेलाद्विगुणितगुणत्यागलहरी ॥४१॥ वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् । येनापनीय नवकरमनवकर: कारयाञ्चक्रे ॥४२॥ पुण्योल्लासविलासलालसधिया येनात्र शत्रुञ्जये, श्रीनन्दीश्वरतीर्थमर्पितजगत्पावित्र्यमासूत्रितम् । एतच्चानुपमासर:परिसरोद्देशे शिलासञ्चये, व्यानद्धोद्धबन्धमुद्धरपयःकल्लोलमुक्तक्लमम् ॥४३॥ स्फुटस्फटिकदर्पणप्रतिमतामिदं गाहते, मुधाकृतसुधाकरच्छविपवित्रनीरं सरः । विकस्वरसरोरुहप्रकरलक्षलोलक्षते, यदत्र हरिदङ्गनावदनबिम्बनाडम्बरः ॥४४॥ शत्रञ्जये यः सरसी निवेश्य. श्रीरवताद्रौ च जटाधराणाम । ग्रामस्य दानेन करं निवार्य, सङ्गस्य सन्तापमपाचकार ॥४५॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः, सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुलपास्य तां, धर्मस्थानपरम्परां गणयितुं शङ्के न सोऽपि क्षमः ॥४६॥ ** ] एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्नम् । सङ्घाधीश्वरचरितं, हतदुरितं कुरुत हृदि सन्तः ! ॥४७॥ 15 20 25 D:\maha-k.pm5\2nd proof

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515