________________
४०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् [* यत् पूर्वैर्न निराकृतं सुकृतिभिः साम्मुख्य-वैमुख्ययो
द्वैतं तन्मम वस्तुपालसचिवेनोन्मूलितं दुर्यशः । आशास्तेऽद्भुततोरणोभयमुखी लक्ष्मीस्तदस्मै मुदा, श्रीनाभेयविभुप्रसादवशतः साम्मुख्यमेवाधुना ॥३९॥ तस्यानुजश्च जगति प्रथितः पृथिव्यामव्याजपौरुषगुणप्रगुणीकृतश्रीः । श्रीतेजपाल इति पालयति क्षितीन्द्रमुद्रां समुद्ररसनावधिगीतकीर्तिः ॥४०॥ समुद्रत्वं श्लाघे महिमहिमधाम्नोऽस्य बहुधा, यतो भीष्मग्रीष्मोपमविषमकालेऽप्यजनि यः । क्षणेन क्षीणायामितरजनदानोदकततौ, दयावेला हेलाद्विगुणितगुणत्यागलहरी ॥४१॥ वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् । येनापनीय नवकरमनवकर: कारयाञ्चक्रे ॥४२॥ पुण्योल्लासविलासलालसधिया येनात्र शत्रुञ्जये, श्रीनन्दीश्वरतीर्थमर्पितजगत्पावित्र्यमासूत्रितम् । एतच्चानुपमासर:परिसरोद्देशे शिलासञ्चये, व्यानद्धोद्धबन्धमुद्धरपयःकल्लोलमुक्तक्लमम् ॥४३॥ स्फुटस्फटिकदर्पणप्रतिमतामिदं गाहते, मुधाकृतसुधाकरच्छविपवित्रनीरं सरः । विकस्वरसरोरुहप्रकरलक्षलोलक्षते, यदत्र हरिदङ्गनावदनबिम्बनाडम्बरः ॥४४॥ शत्रञ्जये यः सरसी निवेश्य. श्रीरवताद्रौ च जटाधराणाम । ग्रामस्य दानेन करं निवार्य, सङ्गस्य सन्तापमपाचकार ॥४५॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः, सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुलपास्य तां, धर्मस्थानपरम्परां गणयितुं शङ्के न सोऽपि क्षमः ॥४६॥ ** ] एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्नम् । सङ्घाधीश्वरचरितं, हतदुरितं कुरुत हृदि सन्तः ! ॥४७॥
15
20
25
D:\maha-k.pm5\2nd proof