________________
पञ्चदशः सर्गः ]
सौवर्णदण्डयुग्मं च, प्रासादद्वितये न्यधात् । श्रीकीर्तिकन्दजयोरुद्यन्नूतनाङ्कुरसोदरम् ॥२८॥ कुन्देन्दुसुन्दरग्रावपावनं तोरणद्वयम् । इहैव श्री सरस्वत्योः, प्रवेशायेव निर्ममे ॥२९॥ अर्कपालितकं ग्राममिह पूजाकृते कृती । श्रीवीरधवलक्ष्मापाद्, दापयामास शासने ॥३०॥ [★★ श्रीपालिताख्ये नगरे गरीयस्तरङ्गलीलादलिता( तो )ग्रतापम् । तडागमागःक्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥३१॥ हर्षोत्कर्षं न केषां मधुरयति सुधासाधुमाधुर्यगर्ज
त्तोयः सोऽयं तडागः पथि मथितमिलत्पान्थसन्तापपापः ? ।
[ ४०१
साक्षादम्भोजदम्भोदितमुदितमुखैर्लोलरोलम्बशब्दै
रब्देव्यो दुग्धमुग्धां त्रिजगति जगदुर्यत्र मन्त्रीशकीर्तिम् ॥३२॥★★ ] पृष्ठपट्टं च सौवर्णं, श्रीयुगादिजिनेशितुः । स्वकीयतेजःसर्वस्वकोशन्यासमिवाऽऽर्पयत् ॥३३॥
प्रसादे निदधे चास्य, काञ्चनं कलशत्रयम् । ज्ञान- दर्शन - चारित्रमहारत्ननिधानवत् ॥३४॥ किञ्चैतन्मन्दिरद्वारि, तोरणं नेत्रपारणम् । शिलाभिर्विदधे ज्योत्स्नागर्वसर्वस्वदस्युभिः ॥ ३५ ॥ लोकैः पाञ्चालिकानृत्तसंरम्भस्तम्भितेक्षणैः । इहाभिनीयते दिव्यनाट्यप्रेक्षाक्षणः क्षणम् ॥३६॥ [ ★★ प्रासादः स्फुटमच्युतैकमहिमा श्रीनाभिसूनुप्रभोस्तस्याग्रे स्थितिरेककुण्डलतुलां धत्तेतरां तोरणम् । श्रीमन्त्रीश्वर ! वस्तुपाल ! कलयन्नीलाम्बरालम्बितामप्युच्चैर्जगतोऽपि कौतुकमसौ नन्दी तथा ( वा ) ऽस्तु श्रिये ॥३७॥ ★★ ] अत्र यात्रिकलोकानां, विशतां व्रजामपि । सर्वथा सम्मुखैवास्ति, लक्ष्मीरुपरिवर्तिनी ॥३८॥
१. [★★ ★★] एतच्चिह्नान्तर्गतौ ३१ - ३२ श्लोकौ वता० पुस्तके न स्तः । एवमग्रेऽपि एतादृक्चिह्नान्तर्वर्त्तीनि पद्यानि वता० पुस्तकादर्शे न विद्यन्ते इति ज्ञेयम् । २. 'द्वातो' खंता० ॥ ३. नां, व्रजतां विशतामपि खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25