________________
[प्रशस्तिः ]
॥ स्वस्ति ॥
श्रीनागेन्द्रमुनीन्द्रगच्छतरणिः श्रीमान् महेन्द्रः प्रभुर्जज्ञे क्षान्तिसुधानिधानकलशः सौख्याप्तिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये ॥१॥ तत्सिंहासनपूर्वपर्वतशिरःप्राप्तोदयः कोऽप्यभूद्, भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिसूरिः प्रभुः । प्रत्युज्जीवितदर्शनप्रविकसद्भव्यौघपद्माकरं, तेजश्छन्नदिगम्बरं विजयते तद् यस्य लोकोत्तरम् ॥२॥
आनन्दसूरिरिति तस्य बभूव शिष्यः, पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्ष जगति यौ विशदौ विभातः ||३|| अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः,
किमनयोः स्तुमहे महिम्नः ? | बाल्येऽपि निर्दलितवादिगजौ जगाद, यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ||४|| सिद्धान्तोपनिषन्निषण्णहृदयो धीमजन्मभूमिस्तयोः, पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः, सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥
१. “शः पुण्याब्धिचन्द्रो° खंता० सं० ॥ २. श्रियत् खंता० ॥ ३. 'नद्युतिलसद्भव्यौ' खंता० सं० ॥ ४. °धनोऽम° खंता० सं० ॥ ५. भूस्तत्पदे, पूज्य श्रीहरि खंता० सं० ॥ ६. 'यैरिव चि° सं० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20