________________
४०४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः ।
यस्य गिरो धारा इव, भवदवभवदवथुविभवभिदः ॥६।। [** पञ्चासराह्ववनराजविहारतीर्थे,
प्रालेयभूमिधरभूतिधुरन्धरेऽस्मिन् । साक्षादधःकृतभवा तटिनीव यस्य, व्याख्येयमच्युतगुरुक्रमजा विभाति ।।७।। भवोद्भटवनावनीविकटकर्मवंशावलिच्छिदोच्छलितमौक्तिकप्रतिमकीर्तिकीर्णाम्बरम् । असिश्रियमशिश्रियद् वितततीव्रतं यद्व्तं, क्षितौ विजयतामयं विजयसेनसूरिर्गुरुः ॥८* *] शिष्यं तस्य प्रशस्यप्रशमगुणनिघेरन्यदाऽरण्यदावज्वालाजिह्वालदीप्तिर्भविकजनविपद्वह्निवार्दः कपर्दी । देवी चाम्बा निशीथे समसमयमुपागत्य हर्षाश्रुवर्षामेयश्रेयःसुभिक्षाविति निजगदतुर्गद्गदोद्दामनादम् ॥९॥ नाभूवन् कति नाम ? सन्ति कति नो ? नो वा भविष्यन्ति के ?, किन्तु क्वापि न कोऽपि सङ्गपुरुषः श्रीवस्तुपालोपमः । पश्येत्थं प्रहरन्नहर्निशमहो ! सर्वाभिसारोद्धरो, येनायं विजितः कलि:कलयता तीर्थेशयात्रोत्सवम् ॥१०॥ तस्मादस्य यशस्विनः सुचरितं श्रीवस्तुपालस्य तद् , वाचाऽस्माकममोघया किल यथाऽध्यक्षीकृतं सर्वथा । त्वं श्रीमन्नुदयप्रभ ! प्रथय तत् पीयूषसर्वङ्कषैः, श्लोकैर्यत्तव भारती समभवत साक्षादिति श्रयते ॥११॥ इत्युक्त्वा गतयोस्तयोरथ पथो दृष्टेः प्रभातक्षणे, विज्ञप्य स्वगुरोः पुरः सविनयं नम्रीभवन्मौलिना । प्राप्याऽऽदेशममुं प्रभोविरचयामासे समासेदुषा, प्रागल्भीमुदयप्रभेण चरितं निस्यन्दरूपं गिराम् ॥१२॥
15
25
१. यत्रेत्थं सं० ॥ २. कलिविदधता ती खंता० सं० ॥ ३. यद् सं० ।।
D:\maha-k.pm5\2nd proof