________________
प्रशस्तिः ]
किञ्च श्रीमलधारिगच्छजलधिप्रोल्लासशीतद्युतेस्तस्य श्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे । यत्पाणिस्मितपद्मवासविकसत्किञ्जल्कसंवासिताः, सन्तः सन्ततमाश्रिताः कमलया भृङ्गयेव भान्ति क्षितौ ॥१३॥
श्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीसङ्घभर्तुर्मया, दध्रे काव्यदलानि सङ्घटयितुं कर्मान्तिकत्वं परम् । किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजः पुत्रैः प्रतिष्ठास्पदम् ॥१४॥ नित्यं व्योमनि नीलनीरजरुचौ यावत् त्विषामीश्वरो, दिक्पत्रावलिबन्धुरे कुवलये यावच्चहेमाचल: । हृत्पद्मे विदुषामिदं सुचरितं तावन्नवाविर्भवत्सौरभ्यप्रसरं चिरं कलयतात् किञ्जल्कलक्ष्मीपदम् ॥१५॥
॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीवस्तुपालसङ्घयात्रावर्णनो नाम पञ्चदशः सर्गः ॥ छ ॥ १५॥
मुक्तेर्मार्गे यदेतद् विरचितमुचितं सङ्घभर्तुश्चरित्रं, सत्रं पावित्र्यपात्रं पथिकजनमनः खेदविच्छेदहेतुः । अस्मिन् सौरभ्यगर्भामसमरसवतीं सत्कथां पान्थसार्थाः, प्राप्य श्रीवस्तुपालप्रवरनवरसास्वादमासादयन्ति ॥१॥
श्रीशारदैकसदनं हृदयालवः के,
नो सन्ति हन्त ! सकलासु कलासु निष्ठा: ? । तादृक् परस्य ददृशे सुकवित्वतत्त्वबोधाय बुद्धिविभवस्तु न वस्तुपालात् ॥२॥
१. 'लतीर्थयात्रोत्सववर्ण' खंता० सं० ॥ २. 'मास्वाद' खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ ४०५
5
10
15
20