________________
5
10
४०६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् नैव व्यापारिणः के विदधति करणग्राममात्मैकवश्यं ?, लेभे सद्योगसिद्धेः फलममलमलं केवलं वस्तुपालः । आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्ना यदीयं, विश्वस्याऽऽनन्दलक्ष्मीमिति दिशति यशो - धर्मरूपं शरीरम् ॥३॥
॥ ग्रन्थाग्रम् १२१ । उभयम् ५०४१॥ प्रत्येकमत्र ग्रन्थाग्रं, विगणय्य विनिश्चितम् । द्वात्रिंशदक्षरश्लोकद्विपञ्चाशच्छतीमितम् ॥१॥
५ सं० १२९० वर्षे चैत्रशु ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालयत महं० श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्यपुस्तकमिदमलेखि ॥ छ ॥ छ ॥ शुभमस्तु श्रोतृव्याख्यातॄणाम् ॥
१. उभयम् - ५२०० खंता० ॥ २. ग्रन्थाग्रसूचकमिदं पद्यं वता० पुस्तके केनचित् पश्चाल्लिखितम् ॥ ३. पुष्पिकैषा वता० पुस्तकान्तर्गता ॥
D:\maha-k.pm5 \ 2nd proof